SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ १० ॥ Jain Education तत्थत्थि महीपालो कालो इव वेरिआण दमिआरी । पइवरिसं सो गच्छइ, उज्जेणिनिवस्स सेवाए ॥ ७९ ॥ अन्नदिणे तप्पुत्तो, अरिदमनो नाम तारतारुन्नो । संपत्तो पिअठाणे, उज्जेणि रायसेवाए ॥ ८० ॥ तं च निवपणमणत्थं, समागयं तत्थ दिव्वरूरधरं । सुरसुंदरी निरिक्खइ, तिक्खकडक्खेहि ताडंती ॥ ८१ ॥ तत्थेव थिरनिवेसिअदिदी दिना निवेण सा बाला । भणिया य कहसु वच्छे ! तुज्झ वरो केरिसो होउ ? ॥ ८२ ॥ तो तीए हिडाए, घिडाए मुक्कलोअलज्जाए । भणियं तायपसाया, जइ लब्भइ मग्गियं कहवि ॥ ८३ ॥ तत्र तस्यां नगी वैरिणां काल इव-कालसदृशो दमितारिर्नाम महीपालो राजाऽस्ति, स राजा वर्ष वर्ष प्रति प्रतिवर्ष उज्ज यिन्या नगर्य्या:- उज्जयिन्या नगर्य्या नृपस्य - राज्ञः सेवायै सेवार्थं गच्छति ॥ ७९ ॥ अन्यस्मिन् दिने तत्पुत्रो अरिदमनो नाम | कुमारो राज्ञः सेवार्थं पितृस्थाने स्वयं उज्जयिनीं सम्प्राप्तः कीदृशो अरिदमनः ? - तारम् उद्भटं तारुण्यं यौवनं यस्य स तारत रुण्यः ॥ ८० ॥ तदा नृपस्य प्रणमनार्थ नमस्कारार्थं तत्र समागतं दिव्यरूपधरं - अद्भुतसौन्दर्यधारकं तं अरिदमनकुमारं सुरसुन्दरी नृपकन्या तीक्ष्णैः | कटाक्षः - नेत्रप्रान्तैस्ताडयंती निरीक्षते - विलोकयतीति ॥ ८१ ॥ तत्र - तस्मिन्नेव कुमारेस्थिरं - निश्चलं यथा स्यात्तथा निवेशिता स्थापित दृष्टिर्यया सा एवंविधा सा सुन्दरी-वाला नृपेण दृष्टा भणिता उक्ता च हे वत्से ! त्वं कथयस्व तव वरो भर्त्ता कीदृशो भवतु ? ॥८२॥ ततः - तदनन्तरं हृष्टया हर्षं प्राप्तया पुनर्दृष्टया धृष्टत्वयुक्तया तथा मुक्ता लोकलज्जा यया सा तया मुक्तलोकलज्जाया तया सुरसुन्दर्या भणितं -उक्तम्, किमुक्तमित्याह - तातस्य पितुः प्रसादात् यदि कथमपि मार्गितं लभ्यते ॥ ८३ ॥ For Private & Personal Use Only वालकहा । ॥ १०॥ v.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy