________________
माया य मयणसुंदरिपमुहाओ राणियाओ समयंमि । सुहझाणा मरिऊणं तत्थेव य सुरवरा जाया॥ तत्तो चविऊण इमे मणुअभवं पाविऊण कयधम्मा । होहिंति पुणो देवा एवं चत्तारि वाराओ ॥ सिरिपालभवाउ नवमे भवंमि संपाविऊण मणुयत्तं । खविऊण कम्मरासिं संपाविस्संति परमपयं॥ एवं भो मगहेसर ! कहियं सिरिपालनरवरचरित्तं । सिरिसिद्धचक्कमाहप्पसंजुअं चित्तचुज्जकरं ॥
माता-कमलप्रभा च पुनः मदनसुन्दरीप्रमुखा राश्यः स्वायुषोऽवसानसमये शुभध्यानान्मृत्वा तत्रैव च-नवमे देवलोके सुरवरा जाताः ॥ १३०० ।। तत:-तस्माद्देवलोकाच्च्युत्वा इमे-सर्वेऽपि श्रीपालादिजीवा मनुजभवं प्राप्य कृतो धर्मो यैस्ते कृतधर्माण: सन्तः पुनः देवा भविष्यन्ति, एवं चतुरो वारान् मनुष्या देवाश्च भविष्यन्ति ॥ १३०१ ॥ श्रीपालभवाभवमे भवे मनुजत्वं-मनुष्यत्वं सम्प्राप्य कर्मणां राशि-समूहं क्षपयित्वा परमपदं-मोक्षं सम्प्राप्स्यन्ति ॥ १३०२ ॥ श्रीगौतमस्वामी श्रेणिकनृपं वक्ति 'भो मगधेश्वर' मगधाभिधदेशस्वामिन् ! एवम्-अमुना प्रकारेण श्रीपालनाम्नो नरवरस्यराज्ञः चरित्रं कथितं, कीदृशं ?-श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतं-युक्तं, पुनः लोकानां चित्तेषु चोद्यम्-आश्चर्य करोतीति चित्तचोद्यकरम् ॥ १३०३ ॥
in Education Inter
For Private
Personel Use Only
Nw.jainelibrary.org