________________
बाहिरमभितरयं बारसभेयं जहुत्तरगुणं जं । वएिणजइ जिणसमए तं तवपयमेस वदामि ॥ तब्भवसिलिं जाणंतएहिं सिरिरिसहनाहपमुहेहिं । तित्थयरेहि कयं जं तं तवपयमेस वदामि ॥ जेण खमासहिएणं करण कम्माणमवि निकायाणं । जायइ खओ खणेणं तं तवपयमेस वंदामि ॥ जेणं चिय जलणेण व जीवसुवन्नाउ कम्मकिट्टाई। फिटुंति तक्खणं चिय तं तवपयमेस वंदामि ॥ जस्स पसाएण धुवं हवंति नाणाविहाउ लद्धीओ। आमोसहिपमहाओ तं तवपयमस वदामि ॥ ____ यत्तपो जिनसमये-जैनसिद्धान्ते बाह्यमभ्यन्तरं चेति द्वादशभेदं वर्ण्यते, कीदृशम् -यथोत्तरा-उत्तरोत्तराधिका गुणा यस्मिस्तद्यथोत्तरगुणम् , तत्तपापदं एषोऽहं वन्दे-स्तवीमि ॥ १२६० ।। श्रीऋषभनाथप्रमुखैस्तीर्थकरैस्तद्भवसिद्धि-तद्भवे एव स्वकीयं मुक्तिगमनं जानद्भिरपि यत्तपः कृतं-समाचरितं तत्तपःपदमेषोऽहं वन्दे ॥ १२६१ ॥ क्षमासहितेन कृतेन येन तपसा निकाचितानां-निविडबद्धानामपि कर्मणां क्षणेन चयो जायते तत्तपःपदमेषोऽहं वन्दे ॥ १२९२ ।। ज्वलनेन-अग्निना इव येन तपसा एव जीवसुवर्णात-जीवरूपस्वर्णात् कर्मकिट्टानि-कर्मरूपकठिनतरमलानि तत्क्षणं-तत्कालमेव 'फिटृति - त्ति अपयान्ति-दूरीभवन्तीत्यर्थः तत्तपःपदमेषोऽहं वन्दे ॥ १२६३ ॥ यस्य तपसः प्रसादेन ध्रुवं-निश्चितं आमौषधिप्रमुखा नानाविधा-अनेकप्रकारा लब्धयो भवन्ति-उत्पद्यन्ते तत्तपःपदमेषोऽहं वन्दे ।। १२६४ ॥
Jain Education in
a
For Private & Personel Use Only
www.jainelibrary.org