________________
Jain Education Intern
विरूवं सव्वविरइरूवयं च अणुक्रमसो । होइ गिहीण जईणं तं चारितं जए जयइ ॥ नापि दंसपि अ संपुरणफलं फलंति जीवाणं । जेणं चिअ परिअरिया तं चारितं जए जयइ || जं च जईण जहुत्तरफलं सुसामाइयाइ पंचविहं । सुपसिद्धं जिसमए तं चारितं जए जयइ ॥ जं पडिवन्नं परिपालियं च सम्मं परुवियं दिन्नं । अन्नेसिं च जिणेहिवि तं चारितं जए जय ॥ छक्खंडाणमखंड रज्जसिरिं चइत्र चक्कवट्टीहिं । जं सम्मं पडिवन्नं तं चारितं जए जयइ ॥ १२८५ ॥
यच्चारित्रं देशविरतिरूपं च पुनः सर्वविरतिरूपकं अनुक्रमेण ' गृहिणां ' गृहस्थानां ' यतीनां ' साधूनां भवति, गृहिणां देशविरतिरूपं यतीनां सर्वविरतिरूपमित्यर्थः तच्चारित्रं जगति जयति, सर्वोत्कर्षेण वर्त्तते इत्यर्थः ॥ १२८१ ॥ ज्ञानमपि दर्शनमपि च उभे अपि येन चारित्रेण ' परिकरिते' परिवृते एव जीवानां सम्पूर्णफलं यथा स्यात्तथा ' फलतः ' फलं दत्तः, सम्पूर्णा निफलानि यत्र कर्मणि तत्तथेतिक्रियाविशेषणं तच्चारित्रं जगति जयति ॥ १२८२ ॥ च पुनर्यच्चारित्रं ' जिनसमये ' जनसिद्धान्ते 'यतीनां साधूनां सुष्ठु - शोभनं सामायिकादि ' पंचविधं पंचप्रकारं सुतराम् - अतिशयेन प्रसिद्धं वर्त्तते ' यथोत्तरं ' उत्तरोत्तराधिकं फलं यस्य तत्तथा, तच्चारित्रं जगति जयति ।। १२८३ || जिनैरपि यच्चारित्रं ' प्रतिपन्नं ' अङ्गीकृतं पुनः परिपालितं पुनः सम्यक् प्ररूपितं - उपदिष्टं अन्येभ्यो दत्तं च तच्चारित्रं जगति जयति ।। १२८४ ॥ चक्रवर्त्तिभिः श्रखण्डां पाखण्डानां राज्यश्रियं - राज्यलक्ष्मीं त्यक्त्वा यच्चारित्रं सम्यक् प्रतिपन्नं - अङ्गीकृतं तचारित्रं जगति जयति ॥१२८५ ॥
For Private & Personal Use Only
41
1w.jainelibrary.org