SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सम्वन्नुपणीयागमभणियाण जहटियाण तत्ताणं । जो सुद्धो अवबोहो तं सन्नाणं मह पमाणं ॥ जेणं भक्खाभवखं पिजापिजं अगम्ममवि गम्मं । किच्चाकिच्चं नजइ तं सन्नायं मह पमाणं ॥१२७३॥ सयलकिरिआण मूलं सद्धा लोअंनि तीइ सद्धाए । जं किर हवेइ मूलं तं सन्नाणं मह पमाणं ॥ जं मश्सुअओहिमयं मणपज्जवरूवकेवलमयं च । पंचविहं सुपसिद्धं तं सन्नाणं मह पमाणं ॥ सर्वज्ञैः-अर्हद्भिः प्रणीताः-प्रज्ञप्ता ये आगमाः-सिद्धान्तास्तेषु भणितानां प्रोक्तानां यथास्थिताना-सद्भतानां तत्त्वानाम्-जीवादिपदार्थानां यः शुद्धोऽवबोधो-ज्ञानं तत् सत्वानं मम प्रमाणमस्तीति शेषः ॥ १२७२ ॥ येन ज्ञानेन भक्ष्यं च अभक्ष्यं च ज्ञायते, तथा पेयं च अपेयं च ज्ञायते, अगम्यं गम्यमपि च वस्तु ज्ञायते, कृत्यं च अकृत्यं च ज्ञायते, तत सतज्ञानं मम प्रमाणम्, अत्रायं भावः-भक्ष्य-अन्नादि, अभक्ष्य-मांसादि, पेयं-वस्त्रपूतजलादि, अपेयं-सुरादि, गम्यं-स्वस्त्रयादि, अगम्यं-परस्त्रीभगन्यादि, कृत्यं -अहिंसादि, अकृत्यं-हिंसादीति, ज्ञानं विना एतद्विवेको न भवतीत्यर्थः ।। १२७३ ।। लोके सकलक्रियाणां-सर्वशुभानुष्ठानानां मूलं श्रद्धाऽस्ति, तस्याः श्रद्धाया मूलं किलेति-निश्चयेन यद् ज्ञानं भवति, तत् सज्ज्ञानं मम प्रमाणम् ।। १२७३ ॥ यद् ज्ञानं पञ्चविधं--पश्चप्रकारं सुप्रसिद्धं, तदेव पञ्चविधत्वं विशे पणद्वारेणाह-कीदृशम् ?-मति१ श्रुता२ऽवधयः३ स्वरूपमस्येति--मतिश्रुतावधिमयं, च पुन: मनःपर्यव४ केवल स्वरूपम। स्येति मनःपर्यवकेवलमयं तत्सज्ज्ञानं मम प्रमाणम् । १२७५ ॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy