SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ जे सतरसंजमंगा उब्वूढाट्ठा र सहससीलंगा । विहरंति कम्मभूमिसु ते सव्वे साहुणो वंदे ॥ १२६२ ॥ जं सुद्धदेवगुरुधम्मतत्तसंपत्तिसद्दहणरुवं । वणिज्जइ सम्मत्तं तं सम्मदंसणं नमिमो ॥ १२६३ ॥ जावेगको डाकोडीसागरसेसा न होइ कम्मठिई । ताव न जं पाविज्जइ तं सम्मदंसणं नमिमो ॥ भव्वाणमपुग्गल परियहवसेसभवनिवासाणं । जं होइ गंठिभेए तं सम्मदंसणं नमिमो ॥१२६५॥ जं च तिहा उवसमिअं खओवसमियं च खाइयं चेव । भणियं जिनिंदसमए तं सम्मदंसणं नमिमो ॥ सप्तदशभेदः संयमः अङ्गे- शरीरे येषां ते तथा, पुनरुद्यूढानि - उत्कर्षेण धृतानि अष्टादशसहस्रशीलाङ्गानि यैस्ते तथा, एवम्भूता सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति - विचरन्ति तान् साधून् अहं वन्दे ।। १२६२ ॥ शुद्धा-निर्दोषाः, देवगुरुधर्मा एतत्तत्वसंपत्तिः- तत्त्वसम्पत् तस्याः श्रद्धानं रूपं स्वरूपं यस्य तत्तथाभूतं यत् सम्यक्तं सूत्रे वर्ण्यते तत्सम्यदर्शनं गुणं वयं नमामः ॥ १२६३ ।। यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिर्न भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शनं नमामः ।। १२६४ ॥ अर्द्धपुद्गल परावर्त्तप्रमाणोऽवशेषो भवनिवासः - संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थेः- घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६५ ॥ च पुनः यत्सम्यक्त्वं जिनेन्द्राणाम् - श्रर्हतां समये - सिद्धान्ते त्रिधा - त्रिभिः प्रकारैर्भणितं कथितं तथाहि श्रपशमिकम् अन्तर्मुहुर्त - स्थितिकं १, क्षायोपशमिकं पद्मष्टिसागरोपमस्थितिकं२, च पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं ३, तत्र मध्यमं पौनलिकं अन्यद्वयमपौगलिकं, तत्सम्यग्दर्शनं नमामः ॥ १२६६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy