________________
जे बारसंगसज्झायपारगा धारगा तयत्थाणं । तदुभयवित्थाररया तेऽहं झाएमि उज्झाए ॥१२४५॥ || पाहाणसमाणेऽवि हु कुणंति जे सुत्तधारया सीसे । सयलजणपूयणिजे तेऽहं झाएमि उज्झाए ॥ मोहाहिदद्वनटुप्पनाणजीवाण चेयणं दिति । जे केऽवि नरिंदा इव तेऽहं झाएमि उज्झाए ॥ अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं । जे दिति महाविज्जा तेऽहं झाएमि उज्झाए ॥ गुणवणभंजणमणगयदमणंकुससरिसनाणदाणं जे । दितिं सया भवियाणं तेऽहं झाएमि उज्झाए।
ये द्वादशाङ्गस्वाध्यायस्य पारगाः-पारगामिनः पुनः तदर्थानां-द्वादशाङ्गया अर्थानां धारकाः, पुनः तदुभयस्य-सूत्रार्थरूपस्य विस्तारे रता-रक्तास्तानुपाध्यायानहं ध्यायामि ॥ १२४५ ।। ये गुरवो हु-इति निश्चितं पाषाणसमानान्-प्रस्तर तुल्यानपि शिष्यान् सूत्रधारया-सूत्ररूपतीक्ष्णशस्त्रधारया सकलजनाना-सवेलोकानां पूजनीयान् कुर्वन्ति, तानुपाध्यायान् अहं ध्यायामि ॥ १२४६ ॥ मोह एव अहिः-सर्पस्तेन दष्टा, अत एव नष्टमात्मज्ञानं येषां ते नष्टात्मज्ञानाः, एवम्भूता ये जीवास्तेभ्यो ये केऽपि गुरवःघेतना-चैतन्यं ददति, के इव ?-नरेन्द्रा इव-विषवैद्या इव, तानुपाध्यायानहं ध्यायामि ॥ १२४७ ।। अज्ञानमेव व्याधिः-रोगस्तेन विधुराः-पीडितास्तेभ्यः प्राणिभ्यः सारं-प्रधानं श्रुतमेव रसायनं-महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि ॥ १२४८ ॥ गुणा एव वनानि तानि भञ्जन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टौ ते एव गजा-हस्तिनस्तेषां दमने-वशीकरणे अङ्कुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि ॥ १२४६ ।।
Jain Education Internal
For Private & Personel Use Only
Www.jainelibrary.org