________________
सिरिसिरि. अथमिए जिणसूरे केवलिचंदेऽवि जे पईवुव्व । पयडंति इह पयत्थे ते आयरिए नमसामि ॥ १२४१॥
जे पावभरकते निवडते भवमहंधकूवमि । नित्थारयति जीए ते आयरिए नमसामि ॥ १२४२ ॥ ॥१४॥
जे मायतायबांधवपमुहेहितोऽवि इत्थ जीवाणं । साहंति हिअं कज्जं ते आयरिए नमसामि ॥ | जे बहुलद्धिसमिद्धा साइसया सासणं पभावंति । रायसमा निचिंता ते आयरिए नमसामि ॥
जिनः-अर्हन्नेव सूरः-सूर्यस्तस्मिन् । अस्तमिते । अस्तं गते सति पुनः केवली-सामान्यकेवली स एव चन्द्रस्तसिन्नपि अस्तमिते सति प्रदीप इव ये इह-लोके पदार्थान् प्रकटयन्ति-प्रकटीकुर्वन्ति, तानाचार्यान्नमस्यामि | ॥ १२४१ ॥ पापस्य यो भरः-अतिशयस्तेन आक्रान्तान् अत एव भवः-संसार एव यो महानन्धकूपस्तस्मिन् निपततो जीवान् ये निस्तारयन्ति तानाचार्यान्नमस्यामि ॥ १२४२ ॥ अत्र-अस्मिन्संसारे ये आचार्या जीवानां मात्तातबान्धवप्रमुखेभ्यो-जननीजनकभ्रात्रादिभ्योऽपि अधिक कार्य साधयन्ति, तानाचार्यान्नमस्यामि ॥ १२४३ ॥ बहुभिर्लब्धिभिः समृद्धाः-समृद्धिमन्तः, अत एव सह अतिशयैवर्तन्ते इति सातिशयाः सन्तो ये शासन-जिनमतं प्रभावयन्ति-दीपयन्ति, कीदृशा -ये राजसमा-नृपतुल्याः, अत एव निर्गता चिन्ता येभ्यस्ते निश्चिन्तास्तानाचार्यान्नमस्यामि ॥ १२४४ ॥
मा १४०॥
Jain Education inta
al
For Private
Personal Use Only