________________
देसकुलजाइरूवाइएहिँ बहुगुणगणेहिं संजुत्ता । जे हुंति जुगे पवरा ते आयरिए नमंसामि ॥al जे निचमप्पमत्ता विगहविरत्ता कसायपरिचत्ता । धम्मोवएससत्ता ते आयरिए नमसामि ॥१२३८॥ जे सारणवारणचोयणाहिं पडिचायणाहिं निच्चंपि । सारंति नियं गच्छं ते आयरिए नमसामि ॥ जे मुणियसुत्तसारा परोवयारिकतप्परा दिति । तत्तोवएसदाणं ते आयरिए नमसामि ॥ १२४० ॥
ये देशकुलजातिरूपादिकैर्वहुभिर्गुणानां गणैः समूहै। संयुक्ताः-सहिताः सन्तः युगे प्रवरा-मुख्या भवन्ति, तानाचार्यान् अहं नमस्यामि ॥ १२३७ ॥ ये नित्यम् अप्रमत्ताः-प्रमादरहिताः, पुनः विकथा-राजकथादिकास्ताभ्यो विरक्ताः, पुनः परित्यक्ताः कषायाः-क्रोधादयो यैस्ते तथा, पुनर्धर्मोपदेशे सक्ता-लग्नाः यद्वा शक्ताः-समर्थास्तानाचार्यान्नमस्यामि ॥१२३८ ।। ये आचार्याः स्मारणावारणाचोदनादिभिः पुनः प्रतिचोदनादिभिनित्यमपि निजं गच्छं सारयन्ति, तत्र विस्मृतस्य स्मारणं स्मारणा अशुद्ध पठतो वारणं वारणा, अध्ययनाद्यर्थ प्रेरणं चोदना, कठोरवचनैः प्रेरणं प्रतिचोदना, इत्थं स्मारणादिभिर्ये स्वगच्छस्य रक्षणं कुर्वन्ति तानाचार्यान्नमस्यामि ॥ १२३६ ॥ मुणितो-ज्ञातः सूत्राणां सारो यैस्ते तथा, अत एव परोपकारे एवैकस्मिन् तत्पराः सन्तो ये तत्वोपदेशदानं ददति, तानाचार्यान्नमस्यामि ।। १२४०॥
Jain Education int
o nal
For Private Personel Use Only
Twww.jainelibrary.org