________________
सिरिसिरि.
।। १३६ ।।
Jain Education Inter
जेऽतगुणा विगुणा इगतीसगुणा अ अहव अट्ठगुणा । सिद्धाणंतचउक्का ते सिद्धा दिंतु मे सिद्धि ।। जह नगरगुणे मिच्छो जाणंतोऽवि हु कहेउमसमत्थो । तह जेसिं गुणे नाणी ते सिद्धा दिंतु मे सिद्धिं ॥ जे अतमणुत्तरमणोवमं सासयं सयाणंं । सिद्धिसुहं संपत्ता ते सिद्धा दिंतु मे सिद्धिं ॥ जे पंचविहारं आयरमाणा सया पयासंति । लोयाणणुग्गहत्थं ते आयरिए नम॑सामि ॥१२३६॥
ये सिद्धा अनन्तगुणा - अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विंगुणा - विगता वर्णादयो गुणा येभ्यस्ते तथा च पुनरेकत्रिं शत् संस्थानवर्णादिप्रतिषेघरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा - अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिर्द्ध - निष्पन्नम् अनन्तचतुष्कं - प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धिं ददतु ।। १२३३ ।। यथा - म्लेच्छो नगरगुणान-प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुं समर्थः - समर्थो न भवति, तथातेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थो भवति, ते सिद्धा मे सिद्धिं ददतु ॥। १२३४ ।। ये च सिद्धिमुखं-मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मे-मह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् १- अनंतं न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं ' न विद्यते उत्तरम् - उत्कृष्टं यस्मात्तत्तथा, पुनः अनुपमं न विद्यते उपमा यस्य तत्तथा, पुनः 'सदानन्द' सदा-सर्वस्मिन्काले आनन्दो यत्र तत्तथा ।। १२३५ ।। ये ज्ञानादिपञ्चविधाचारम् आचरन्तो लोकानामनुग्रहार्थ सदा प्रकाशयन्ति - प्रकटीकुर्वन्ति तान् आचार्यान् अहं नमस्यामि नमस्करोमि । १२३६ ॥
For Private & Personal Use Only
वालकद्दा ।
॥ १३६ ॥
w.jainelibrary.org