________________
E चरमंगतिभागोणावगाहणा जे अ एगसमयंमि । संपत्ता लोगग्गं ते सिद्धा दिंतु मे सिद्धिं ॥१२२९॥ । पुवपमोग असंगा बंधणछेया सहावतो वावि । जेसिं उड्डा हु गई ते सिद्धा दिंतु मे सिद्धिं ॥ | ईसीपब्भाराए उवरिं खलु जोयणमि लोगते । जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं ॥१२३१॥ जे अ अणंता अपुणब्भवा य असरीरया अणावाहा । दसणनाणुवउत्ता ते सिद्धा दितु मे सिद्धिं ॥
चरमा अन्तिमा अङ्गस्य-शरीरस्य त्रिभागेन ऊनावगाहना-देहमानं येषां ते तथा, ये च ईदृशाः सन्तः एकस्मिन्समये लोकाग्रं सम्प्राप्तास्ते सिद्धा मे सिद्धिं ददतु ॥ १२२६ ॥ पूर्वप्रयोगतो धनुर्मुक्तबाणवत्, तथाऽसङ्गात्-निःसङ्गतया कर्ममला| पगमेन अलाबुद्रव्यवत् , तथा बन्धनच्छेदात्-कर्मबन्धनच्छेदनेन एरण्डफलवत् , तथा स्वभावतो वापि धूमवत् , येषां ऊर्जा गतिः प्रवर्तते ते सिद्धा मे सिद्धिं ददतु ॥ २३०॥ ईषत्प्राग्भारायाः-सिद्धिशिलाया उपरि खलु-निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः-अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धिं ददतु ॥ १२३ ॥ चः पुनः येऽनन्ताः, पुनरपुनर्भवाः-न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका-न विद्यते शरीरं येषां ते, तथा पुनरनाबाधा-न विद्यते आवाधा-पीडा येषां ते तथा, पुनदर्शनं च ज्ञानं च दर्शनशाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः, येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु ॥ १२३२ ॥
Jain Education Inteman
For Private & Personel Use Only
Nivgainelibrary.org