________________
वाक्षकहा
चिरिसिरि सुतस्थीवस्थारणतप्पराणं, नमो नमो वायगकुंजराणं । साहूण संसाहिअसंजमाणं, नमो
_ नमो सुद्धदयादमाणं ॥ १२०७॥ जिणुत्ततत्ते रुइलवखणस्स, नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो
नमो नाणदिवायरस्त ॥ १२०८ ॥ | आराहिआऽखंडिअसक्कियस्स, नमो नमो संजमवीरियस्स । कम्ममुम्मूलणकुंजरस्स,
_ नमो नमो तिव्वतवोभरस्स ॥ १२०९ ॥ सूत्रार्थयोर्विस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच वाचककुञ्ज| रास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ । दयादमी येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु ॥ १२०७॥ जिनोक्ततत्वे या रुचिः सा लक्षणं यस्य स तथा तस्मै निर्मलदर्शनाय-उज्ज्वलसम्यग्दर्शनाय नमो नमोऽस्तु, तथाज्ञानेन यः सम्मोहो-मतिभ्रमः स एव तमः-अन्धकारं तत् हरतीति अज्ञानसंमोहतमोहरस्तस्मै ज्ञानदिवाकराय-ज्ञानसूर्याय नमो नमोऽस्तु ॥ १२०८ ॥ तथा संयम-संयमविषये यद्वीय-पराक्रम
स्तस्मै नमो नमोऽस्तु, कीदृशाय संयमीर्याय ?-आराधिताऽखण्डिता सत्क्रिया-साध्वाचाररूपा यस्मात्तत् तथा तस्मै, तथा कर्मामण्येव दुमा वृक्षास्तेषां यदुन्मूलनं-उत्खननं तत्र कुञ्जरो-हस्ती इव कर्मद्रुमोन्मूलनकुञ्जरस्तस्मै तीव्रतपोभराय नमो नमोऽस्तु।।१२०६।
Join Education Inter
For Private & Personal Use Only
T
ww.jainelibrary.org