SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ उत्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं । सदेसणाणंदियसजणाणं, नमो नमो होउ सया जिणाणं ॥ १२०५॥ सिद्धाणमाणंदरमालयाणं, नमो नमोऽणंतचउक्याणं । सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पभाणं ॥ १२०६ ॥ . RECE तथाहि-उत्पन्नं यत्सज्ज्ञानं-केवलज्ञानं तदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्राति| हाय:-छत्रचामरादिभिः सह वर्त्तते यत्तत्सप्रातिहार्य ईदृशं यत् आसन-सिंहासनं तत्र सं-सम्यक प्रकारेण स्थितेभ्यः, पुनः सद्देशनया-सद्धर्मोपदेशेन आनंदिताः सजना:-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमोभवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः । १२०५॥आनन्दरमा-परमानन्दलक्ष्मीस्तस्या श्रालया-निवासास्तेभ्यः पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा तेभ्यः सिद्धेभ्यो नमो नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यैस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः-सूर्यस्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा तेभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु ।। १२०६॥ Jain Educa For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy