________________
सिरिसिरि
॥ १३० ॥
पोइ अ मे भयवं ! संपइ चरणस्स नत्थि सामत्थं । तो का ऊण पसायं मह उचिअं दिसह करणिज्जं ॥ तो भइ मुणिरिंदो नरवर! जाणेसु निच्छयं एयं । भोगफलकम्मवसओ इत्थ भत्रे नत्थि तुह चरणं ॥ किंतु तुमं एआई अरिहंताई नवावि सुपयाई । आराइतो सम्मं नवमं सग्गंपि पाविहिसि ॥११६३॥ तत्तोव उत्तरुत्तरनर सुर सुक्खा अणुहवंतो अ । नवमे भवंमि मुक्खं सासय सुक्खं धुवं लहसि ॥ तं सोऊणं या साणंदो निअगिहंमि संपत्तो । मुणिनाहोऽवि अ तत्तो पत्तो अन्नत्थ विहरंतो ॥
च पुनः नृपः प्रभणति - कथयति, हे भगवन् ! सम्प्रति - अधुना मे मम चरणस्य चारित्रस्य सामर्थ्यं नास्ति, तत् तस्मात्कारणात् प्रसादं कृत्वा ममोचितं मम योग्यं करणीयं- कर्त्तव्यं दिश- कथय ।। १६६१ ॥ ततो मुनिवरेन्द्रो भणति - हे नरवर ! एवं निश्वयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि तेषां वशतोऽत्र अस्मिन् भवे तव चरणं चारित्रं नास्ति | ११६२ । किन्तु त्वं एतानि अर्हदादीनि नवापि सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्ग - श्रनाख्यमपि प्राप्स्यसि || ११६३॥ च पुनः ततः- तस्मादपि देवलोकात् उत्तरोत्तराणि - अधिकाधिकानि नरसुरसुखानि अनुभवन्- भुञ्जानस्त्वं नवमे भवे ध्रुवं निश्चितं मोचं लभसे प्राप्स्यसीत्यर्थः कीदृशं मोक्षं :- शाश्वतं नित्यं सौख्यं यत्र स तथा तं ।। ११६४ ।। तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः - आनन्दसहितः सन् निजगृहे सम्प्राप्तः, ततः तदनन्तरं मुनिनाथो- मुनीन्द्रोऽपि विचरन् अन्यत्र - अन्यस्मिन्नगरादौ प्राप्तः ।। ११६५ ।।
Jain Education tional
For Private & Personal Use Only
वालकहा।
॥ १३० ॥
www.jainelibrary.org