________________
पिरिसिरि
॥१२॥
| ता तुझे भो महाभागा!, नाऊणं तत्तमुत्तमं । सम्मं झाएह जं सिग्धं, पावेहाणंदसंपयं ॥ ११०२ ॥ एवं सो मुणिराओ काऊणं देसणं ठिओ जाव । ताव सिरिपालराया विणयपरो जंपए एवं॥११०३॥ नाणमहोयहि!भयवं केण कुकम्मेण तारिसो रोगो।बालते मह जाओ? केण सुकम्मेण समिओ अH केणं च कम्मरणाऽहं ठाणे ठाणे अ परिसिं रिद्धिं । संपत्तो? तह केणं कुकम्मणा सायरे पडिओ?B तह केण नीअकम्मेण चेव दुबत्तणं महाघोरं । पत्तोऽहं ? तं सव्वं कहेह काऊण सुपसायं ॥११०६॥
ततः-तस्मात्कारणात् भो ! महाभागा-अहो ! महाभाग्यवन्तो युयमिदं उत्तमं तत्त्वं ज्ञात्वा सम्यग् यथा स्यात्तथा ध्यायत, यत्-यतः शीघ्र मानन्दसम्पदं-परमाहादरूपसम्पत्तिं प्राप्नुत ।।११०२।। सोजितसेनो मुनिराज एवम्-उक्तप्रकारेण देशनां कृत्वा यावत् स्थितस्तावत् श्रीपालो राजा विनयपरः सन् एवं-वक्ष्यमाणप्रकारेण जन्पति-वदति ॥ ११०३ ॥ हे ज्ञानमहोदधे-हे ज्ञानसमुद्र ! हे भगवन् ! केन कुकर्मणा मम बालत्वे तादृशो रोगो जात-उत्पन्नः १ च पुनः केन सुकमणा शान्तो-नाशप्राप्तः ॥११०४॥ च पुनः केन कर्मणाऽहं स्थाने स्थाने ईदृशी ऋद्धिं सम्प्राप्तः तथा केन-कर्मणाऽहं सागरे-समुद्रे पतितः ॥ ११०५ ॥ तथा केन नीचकर्मणा एवाहं महाघोरं-महादारुणं डुम्बत्वं प्राप्तः तत्सर्व सुतरामतिशयेन प्रसादं कृत्वा कथय ॥ ११०६॥
B॥ १२४ ॥
Jain Educationfmtional
For Private & Personel Use Only
Blwww.jainelibrary.org