________________
एसो दसविहोदेसो, धम्मो कप्पदुमोवमो । जीवाणं पुण्णपुण्णाणं, सव्वसुक्खाण दायगो ॥१०९०॥ धम्मो चिंतामणी रम्मो, चिंतिअस्थाण दायगो । निम्मलो केवलालोअलच्छिविच्छिडिकारओ ॥ E कल्लाणिकमओ वित्तरूवो मेरूवमो इमो । सुमणाणं मणोतुष्टिं, देइ धम्मो महोदओ ॥ १०९२ ॥
दशविधा-दशप्रकारा उद्देशा-अवयवा नामोचारणानि वा यस्य स तथाभूत एष धर्मः कल्पद्रुमोपमः- कल्पवृक्षसदृशः पूर्णपुण्येभ्यो जीवेभ्यः सर्वसौख्यानां दायकोऽस्ति, पूर्ण पुण्यं येषां ते पूर्णपुण्यास्तेभ्यः, कल्पवृक्षाणामपि दशविधत्वात्तदुषमो धर्म उक्तः ॥ १०६० ॥ धर्माश्चिन्तामणिरिव रम्यो-मनोज्ञाश्चिन्तितार्थाना-बाञ्छितार्थानां दायको दाताऽस्ति, कीदृशो धर्मो-निर्मलो-निर्दोषो अत एव केवलालोक केवलज्ञानरूपप्रकाशः सा एव लक्ष्मीः--सम्पत् तस्या विच्छिड्डित्तिविस्तारस्तत्कारकः ॥ १०६१ ।। कन्याणं-मजलं मेरुपचे कल्याणम्-सुवर्ण तदेव एकं स्वरूपमस्येति कल्याणैकमयः पुनवित्त- प्रसिद्धं रूपं--स्वरूपं यस्य स तथा द्वयोस्तुल्यं विशेषणमिदं, यद्वा मेरुपक्षे वृत्तं--वर्तुलं रूपम्-प्राकृतिर्यस्य स तथा, पुनर्महान् उदयो यस्मात स महोदयः, मेरुपचे महानुदय-उन्नत्यं यस्य स तथाऽत एव मेरुणा गिरिराजेन उपमा यस्य स मेरूपमोऽयं धर्मः, सुमनसा-शोभनमनोवृत्तीनां जनानां मेरुपक्षे देवानां मनसि तुष्टि-तोषं ददाति ॥ १०९२ ।।
Jain Education inta
For Private Personel Use Only
www.jainelibrary.org