________________
कम्माणं मूलुत्तरपयडीओ गणइ मुणइ कम्मठिइं । जाणइ कम्मविवागं, बंधोदयदीरणं संतं ॥ ६६ ॥ जीसे सो उज्झाओ, संतो दंतो जिइंदिओ धीरो । जिणमयरओ सुबुद्धी, सा कि नहु होइ तस्सीला ? ॥६॥ सयलकलागमकुसुला, निम्मलसम्मत्तसीलगुणकलिया । लज्जासज्जा सा मयणसुन्दरी जुव्वणं पत्ता॥ ६८ ॥ अन्नदिणे अभितरसहानिविट्टेण नरवरिंदेण । अज्झावयसहियाओ, अणाविआओ कुमारीओ ॥ ६९ ॥
अष्टौ मूलप्रकृती-पुनः सा कर्मणां मूलभेदान तथाष्टपञ्चाशदधिकशतमुत्तरप्रकृतीर्गणयति, तथा कर्मणां स्थिति त्रिंशत्कोटीकोटीसागरोपमादिकां जानाति, पुनः कर्मणां विपाकं शुभाशुभानुभवस्वरूपं जानाति, तथा कर्मणां बन्धोदयोदीरणया (णा) सत्ताखरूपं जानाति ॥ ६६ ॥ यस्याः सुबुद्धिर्नाम श्रावक उपाध्यायः-पाठकः सा मदनसुन्दरी तच्छीला-गुरुतुल्यस्वभावा किं नहि भवति? भवत्येवेत्यर्थः, कीदृशः स? इत्याह-शान्तः क्षमायुक्तः, तथा दान्तो मानसदमयुक्तः, पुनर्जितेन्द्रियस्तथा, धीरो-धैर्यवान् , बुद्धिमान् वा पुनर्जिनमते रक्तः ईदृशो यस्याः गुरुः सा तादृशगुणवती कथं न भवेत् ?, सा मदनसुन्दरी यौवनं प्राप्ता, कीदृशी सा? इत्याह-सकलकलागमेषु-समस्तकलाशास्त्रेषु कुशला-निपुणा पुनर्निर्मला ये सम्यक्त्वशीलगुणास्तैः कलिता-युक्ता तथा लजायां सज्जा-परिपूर्णा प्रगुणा इतियावत् एवंविधा मदनसुन्दरीकन्या बाल्यावस्थामतिक्रम्य यौवनावस्थां प्राप्तवतीत्यर्थः ॥ ६८ ॥ अन्यस्मिन् दिने अभ्यन्तरसभायां निविष्टेन-उपविष्टेन नरवरेन्द्रेन-राज्ञा अध्यापकाभ्यां सहिते द्वे अपि कुमार्यों आनायिते स्वपार्थे इति शेषः ।। ६९॥
Join Education
For Private
Personel Use Only
tainelibrary.org