________________
100
सिरिसिरि. जेणिच्छामुच्छावेलसंकुलो लोहसागरो गरुओ। तरिओ मुत्तितरीए तस्स महामुणिव ! नमो ते ॥
वाजकहा जेण कंदप्पसप्पो विवेअसंवेअजणिअजंतेण । गयदप्पुच्चिअविहिओ तस्स महामुणिवइ ! नमो ते॥ ॥११६॥ | जेण निअमणपडाओ कोसुंभपयंगमंगसमरागो। तिविहोऽवि हु निधूओ तस्स महामुणिवइ ! नमो ते।
दोसो दुट्ठगयंदो वसीकओं जेण लीलमित्तेणं। उवसमसिणिनिउणेणं तस्स महामुणिवइ ! नमो ते ।। | येन मुनिना गुरुको-महान् लोभसागरो-लोभसमुद्रो मुक्ति:-निर्लोभता एव तरी:-नौस्तया तीर्णस्तस्मै ते० नमः, कीदृशो लोभसागरः ?-- इच्छामू वेलासङ्कलः' इच्छा-सामान्यतो वाच्छा मूछो-विशेषतस्तृष्णा इच्छायुक्ता मूर्छा इच्छामूर्छा सा एव वेला--जलवृद्धिस्तया सङ्कलो--व्याकुलः ।। १०५५ ॥ येन मुनिना विवेकसंवेगाभ्यां जनितं-उत्पादितं यत् यन्त्रं तेन कन्दर्प एव सो गतदर्प एव विहितः-कृतः तस्मै ते० नमः, गतो दो मानो यस्य स तथा ॥ १०५६ ।। येन मुनिना निजमनःपटात--स्वकीयचित्तरूपवस्त्रात् कुसुम्भपतङ्गमङ्गैः समः-तुल्यः कामस्नेहदृष्टिरागारख्यास्त्रविधोऽपि रागो निर्धतोदूरीकृतस्तस्मै ते नमः, तत्र कुसुम्भरागसमः कामरागः, पतङ्गरागसमः स्नेहरागः मंगरागसमो दृष्टिरागः, मङ्गो रञ्जनद्रव्यविशेषस्तद्रागो दुस्त्यजो भवति ।। १०५७ ।। पुनर्येन मुनिना लीलामात्रेण--लीलया एव द्वेषो दुष्टगजेन्द्रो वशीकृतस्तस्मै ते नमः, कीदृशेन येन ?--उपशम एव मणिः--अङ्कुशस्तत्र निपुणेन, तत्प्रयोगज्ञेनेत्यर्थः । १०५८ ।।
॥ ११॥
Jan Education Intel
For Private
Personel Use Only