SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तं च पवन्नचरितं दद्धुं सिरिपालनरवरो झत्ति । पणमेइ सपरिवारो भत्तीइ युणेइ एवं च ॥ १०५१ ॥ जेस कोहजोहो हरिणओ हेलाइ खंतिखग्गेणं । समयासिअधारेणं तस्स महामुणिवइ ! नमो ते ॥ माणगिरिगरुअमयसि हरअट्ठयं मद्दविक्कवजेणं । जेण हणिऊण भग्गं तस्स महामुणिवइ ! नमो ते ॥ मायामयविसवली जेणऽज्जवसारसरलकीलेणं । उक्खरिणआ मूलाओ तस्स महामुणिवइ ! नमो ते ॥ प्रपन्न अङ्गीकृतं चारित्रं येन स तं प्रपन्नचारित्रं तं च अजितसेनं दृष्ट्वा श्रीपालनरवर :-- श्रीपालनृपो झटिति - शीघ्रं सपरिवारः-परिवारसहितः प्रणमति - नमस्करोति च पुनर्भक्त्या एवं वच्यमाणप्रकारेण स्तौति, तथाहि ॥ १०५१ ।। येन एष क्रोधयोधः-- क्रोध एव भटः क्षान्तिखड्गेन- क्षमारूपकरवालेन हेलया -अवज्ञया लीलया वा हतस्तस्मै ते तुभ्यं महामु निपतये नम इत्यन्वयः कीदृशेन क्षान्तिखड्गेन :- समता एव शिता - तीक्ष्णा धारा यस्य स तेन तथा ।। १०५२ ।। पुनर्येन मुनिना मान:- अभिमान एव गिरिः- पर्वतस्तत्र गुरुकाणि महान्ति लाभैश्वर्यादिका मदा एव शिखराणि तेषामष्टकं मार्दवं मृदुता एव एकम् - अद्वितीयं वज्रं तेन हत्वा भयं त्रोटितं तस्मै ते तुभ्यं महामुनिपतये नमः || १०५३ || माया स्वरूपमस्या इति मायामयी या विषवल्ली सा येन मुनिना आर्जवं सरलता एव सारः - श्रेष्ठः सरलः--अवक्रः कील:- शङ्कुस्तेन मूलात् उत्खाता- निष्कासिता तस्मै ते तुभ्यं महामुनिपतये नमः ॥ १०५४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy