________________
Jain Education Inter
तत्थ य पप्पडभंगं भजंति रहा य कोहलयभेअं । भजंति गया तुरया चिन्भडछेअं च छिजंति ॥ तओ-सत्थच्छुरिआ बहुमुंड मंडिआ घउडिआ भडभडे हिं। अंतेहिं निरंतरिआ भरिआ मयहयगय सएहिं । रुहिरोहज णिअकद्दममज्ज विमद्दिजमाणमडयाणं । कडयडसद्दरउद्दा खणेण सा रणमही जाया ॥
तत्र च सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः च पुनः गजा - हस्तिनः कुष्मा कभेदं भिद्यन्ते - विदार्यन्ते, यथा कुष्माण्डकफलानां भेदो--विदारणं भवेत्तथा भिद्यन्ते इत्यर्थः च पुनः तुरगा -- श्रश्वाविच्छेदं विद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा-- छिद्यन्ते इत्यर्थः ॥ १०३६ ततः -- तदनन्तरं सा रणमही - सङ्ग्रामभूमिः चणेन ईदृशी जाता इति द्वितीय गाथान्त्यपादेऽन्वयः कीदृशीत्याह--शस्त्रैः श्रस्तृता - संस्तृता, पुनः बहुभिर्मुएडै:-- मस्त कैर्मण्डिता - भूषिता, पुनः भटानां वीराणां घडेहिन्ति--निर्जीव कलेवरैः स्थपुटिता-विषमोन्नतभूता, पुनः अन्त्रैः-- शरीरा वयव विशेषैर्निरन्तरिता - अन्तररहिता व्याप्तेत्यर्थः पुनः मृतानां हयानां गजानां च शतैर्भरिता ॥ १०३७ ॥ तथा रुधिरस्य श्रोषः - प्रवाहस्तेन जनित - उत्पादितो यः कर्दमस्तन्मध्ये विमर्द्यमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा ईदृशी सा रणभूमिर्जातेत्यर्थः || १०३८ ॥
For Private & Personal Use Only
www.jainelibrary.org