SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ कावि हु हसे रमणं महनयणहओवि होसि भयभीओ।नाह ! तुमं विजुजलभल्लअघाए कह सहसि? इत्यंतरंमि उब्भडसुहडकयाडंबरं व असहतो । सूरो फुरंततेो संजाओ पुवदिसिभाए ॥१०३०॥ मिलिऊण तक्खणं चिअ अग्गिमसेणाइ उभडा सुहडा । मग्गणमसिक्खिपि हु कुणंति । पढमासिघायाणं ॥ १०३१ ॥ खग्गाखग्गि सरासरि कुंताकुंतिप्पयंडदंडं च । जुज्शंता ते सुहडा संजाया एगमेगं च ॥ १०३२॥ कापि स्त्री रमणं--भारं हसति, हे नाथ ! त्वं मम नयनाभ्यां हतोऽपि भयभीतो भवसि, तर्हि विद्युदिव--तडिदिव उज्ज्वला ये भल्लयत्ति कुन्तास्तेषां घातान्-प्रहारान् कथं सहसे-सहिष्यसे ॥१०२६।। अत्रान्तरे--अस्मिन्नवसरे उद्भटा-उद्धता ये सुभटास्तैः कृतं आडम्बरं असहमान इव सूरः--सूर्यः पूर्व दिग्भागे--पूर्वस्यां दिशि स्फुरत्-सञ्चरत्तेजो यस्य स स्फुरत्तेजाः सञ्जातः--उदित इत्यर्थः ॥१०३० ॥ तदा अग्रिमसेनयोः-पुरोवर्त्तिकटकयोः उद्भटाः सुभटास्तत्क्षणं-तत्काल एव परस्परं मिलित्वा प्रथमं येऽसिघाता:-खड्गप्रहारास्तेषां असि(शिक्षितमपि मार्गणं--याचनां कुर्वन्ति ॥१.३१ ॥ खङ्गैः खड्गैः प्रदृत्य इदं युद्धं प्रवृत्तमिति खड्गाखड्गि, तथा शरैः शरैः प्रदृत्य इदं युद्धं प्रवृत्तमिति शराशरि, तथा कुन्तैः कुन्तैः प्रत्य इदं युद्धं प्रवृत्तमिति कुन्ताकुन्ति, च पुनः प्रचण्डा दण्डा यत्र कर्मणि तत्प्रचण्डदण्डं यथा स्यात्तथा युध्यमाना--युद्धं कुर्वा| णास्ते सुभटा एकमेकं च सञ्जाताः-सर्वेऽपि एकत्रीभूता इत्यर्थः ॥ १०३२ ॥ Jain Education Inter nal For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy