________________
सोहिज्जइ रणभूमी किंजइ पूआ य सय लसस्थाणं । सुहडाणं च पसंसा किज्जइ भट्टेहिं उच्चसरं ।। किजंति भूहरीओ सुहडाणं चारुचंदणरसेण । पूरिजंति असिहरा चंपयकुसुमेहिं पवरेहिं ॥१०२२॥ वामपयतोडरेहिं दाहिणकरचारुवीरवलएहिं । वारणयचामरेहिं नजंति फुडं महासुहडा ॥ १०२३ ॥ गयगजिअं कुणंता सुहडगणा तत्थ सीहनायं च । मुच्चंता नचंता कुणंति वरवीरवरणीओ ॥
ततो रणभूमिः-सङ्घामभूमिका शोध्यते-प्रस्तरकण्टकाद्यपनयनेन शुद्धा क्रियते, च पुनः सकलशस्त्राणां पूजा क्रियते, च पुनः भट्टः-भट्टलोकः उच्चः खरो यत्र कर्मणि तत् उच्चस्वरं यथा भवेत्तथा सुभटानां-योधानां प्रशंसा-श्लाघा क्रियते ॥ १०२१ ॥ तथा सुभटानां चारु-सुन्दरं यच्चन्दनं तस्य रसेन भूहरीओत्ति-तिलकविशेषाः क्रियन्ते, च पुनः प्रवरैःप्रधानैश्चम्पककुसुमैः-चम्पकपुष्पैः सुभटानां शिरस्सु शेषराणि पूर्यन्ते ।। १०२२ ॥ वामपदे-वामचरणे टोडरैः-मान्यविशेषस्तथा दक्षिणे करे चारुभिः--मनोहर्वीरवलयः-वीरत्वसूचकैः कटकविशेषैस्तथा वारणशब्देन आतपवारणमुच्यते आतपवारणैः-छत्रैः पुनश्चामरैः स्फुट-प्रकटं महासुभटा ज्ञायन्ते ॥१०२३॥ तत्र सैन्यद्वये सुभटानां गणा:-समृहा गजवत् गार्जितं कुर्वन्तश्च पुनः सिंहनादं मुंचन्तः पुनर्नत्यन्तो--नृत्यं कुर्वन्त. वरवीरवरणानि-परस्परं शस्त्रप्रहारयाचनानि कुर्वन्ति ।। १०२४॥
Jain Education icona
For Private & Personel Use Only
www.jainelibrary.org