________________
चिरिसिरि.
वालकहा। .
कत्थ तुमं सरसरसवससयसमाणोसि देव ! हीणवलो। कत्थ य सो रयणायरमेहमयंदहिं सारिच्छो ॥ जइ तं रुटोऽसि न जीविअस्स ता झत्ति भत्तिसंजुत्तो। सिरिसिरिपालनरेसरपाए अणुसरसु सुपसाए ॥ ज कहवि गव्वपव्वयमारूढो नो करेसि तस्साणं । तो होही जुज्झसजो कजपयं इत्तिअं चेव ॥
॥११३॥
पुनर्हे देव ! हे राजन् ! कुत्र त्वं ? कुत्र च स श्रीपालः ?, कथमित्याह-त्वं तु सरःसर्षपशशकैः समान:-तुल्योऽसि, सरः-सरोगः सर्षपो-लघुधान्यविशेषः शशको-लघुजन्तुविशेषः तैः सदृश इत्यर्थः, अतएव[हीनंव]हीनं बलं यस्य स हीनवलस्त्वमसि, स श्रीपालस्तु रत्नाकरमेरुमृगेन्द्रैः सदृक्षः-तुल्योऽस्ति, रत्नाकरः-समुद्रः मेरु:-सुरगिरिः मृगेन्द्रः-सिंहस्तैः सदृश इत्यर्थः, एतावता क्व सरः १ क्व समुद्रः ? क्व सर्षपः ? कब मेरुः ? क्व शशकः ? क्व सिंहः १ इति भावः ॥ १००६ । यदि त्वं जीवितस्योपरि न रुष्टोऽसि तत्-तर्हि झटिति-शीघ्र भक्त्या संयुक्तः-सहितः सन् श्रीश्रीपालनरेश्वरस्य पादौचरणौ अनुसर-सेवस्व, कीदृशौ पादौ ?-सुष्टु-शोभनः प्रसादो ययोस्तौ सुप्रसादौ ॥१०१० ॥ यदि कथमपि गर्वो-अहङ्कारस्तद्रपं पर्वतमारूढः सन् तस्य श्रीपालस्य आज्ञां नो करोषि ततः-तर्हि युद्धाय-युद्धार्थ सजो भव, कार्यपदं इयदेवएतावदेवास्ति ।। १०११॥
Jain Education Interior
For Private & Personal Use Only
Www.jainelibrary.org