________________
8-99368
अन्नाइंपि कुंडलविटलाइं करलाघवाइकम्माइं। सत्थाई सिक्खियाइं, तीइ चमुक्कारजणयाइं॥५७ ॥ सा कावि कला तं किंपि, कोसलं तं च नत्थि विन्नाणं । जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं ॥५८॥ सविसेसं गीयाइसु, निउणा वीणाविणोयलीणा सा । सुरसुंदरी वियड्डा,-जाया पत्ता य तारुन्नं ॥ ५९ ॥ जारिसओ होइ गुरू, तारिसओ होइ सीसगुणजोगो। इत्तुच्चिय सा मिच्छ-दिट्टी उक्किटदप्पाअ॥६०॥ तह मयणसुंदरीवि हु, एया उ कलाओ लीलमित्तेण । सिक्खेइ विमलपन्ना, धन्ना विणएण संपन्ना ॥ ६१ ॥
तथा सुरसुन्दा अन्यान्यपि कुण्टलविण्टलानि-कार्मणवशीकरणादीनि शिक्षितानि, पुनः करलाघवादीनि-हस्तचापलादीनि कर्माणि-क्रियाविशेषाः शिक्षितानि, तथा अन्यान्यपि चमत्कारजनकानि-जनानां चित्तेषु चमत्कारोत्पादकानि शास्त्राणि शिक्षितानि ॥५७॥ सा कापि कला नास्ति तत् किमपि कौशल्यं-निपुणत्वं नास्ति, च पुनस्तत् विज्ञानं-चातुर्य नास्ति, यत्तया सुरसुन्दर्या न शिक्षितं, केनेत्याह-प्रज्ञा-बुद्धिरभियोगः-उद्यमस्तयोर्योगेन ॥५८॥ सविशेष गीतादिषु निपुणा-दक्षा पुनर्वीणाविनोदे लीना-मग्ना सा सुरसुन्दरी-विदग्धा छेका जाता तारुण्यंच-यौवनं प्राप्ता ॥५९॥ यादृशको गुरुर्भवति तादृशक एव प्रायः शिष्ये गुणयोगो-गुणसम्बन्धो भवति, इतः-अस्मात्कारणादेव सा सुरसुन्दरी मिथ्यादृष्टिः उत्कृष्टदा च आसीत् , मिथ्या दृष्टिर्यस्याःसा उत्कृष्टो दर्पो-मानो यस्याः सा इति समासः ॥६०॥ तथा मदनसुन्दरी अपि एता प्रागुक्ता लेखनाद्याः लीलामात्रेण शिक्षति, कीदृशी मदनसुन्दरी?-विमलानिर्मला प्रज्ञा-बुद्धिर्यस्याः सा विमलप्रज्ञा तथा धन्या-धर्मधनं लब्धी तथा विनयेन सम्पन्ना-युक्ता ॥ ६१ ।।
Jain Education
For Private & Personel Use Only
jainelibrary.org