________________
| वालकहा।
चिरिसिरि.
॥ १०४॥
जह जोई अट्ठमहासिद्धिसमिद्धोऽवि ईहए मुत्तिं । तह झायइ पढमपिनं अट्ठपियाहिं स सहिओऽवि तो तीए उक्कंठियचित्तो जणणी नमणपवणो य । सो सिरिपालो राया पयाणढक्काओ दावे ॥ मग्गे हयगयरहभडकन्नामणिरयणसत्थवत्थेहिं । भिटिजइ सो राया पए पए नरवरिंदेहि ॥ ९२६ ॥ एवं ठाणे ठाणे सो बहुसेणाविवडियवलोहो । महिवीढे नइवड्डियनीरो उयहिव्व वित्थर ॥९२७ ॥
पुनः यथा योगी-ज्ञानदर्शनचारित्रात्मकयोगयुक्तः पुमान् अष्टमहासिद्धिभिरणिमादिभिः समृद्धोऽपि मुक्ति-निर्वाणात्मिका ईहते-वाञ्छति, तथा-तेन प्रकारेण स श्रीपालोऽष्टप्रियाभिः सहितोऽपि प्रथमप्रियां मदनसुन्दरी ध्यायति-निरन्तरं हृदि स्मरति ॥ २४ ॥ ततः-तदनन्तरं तस्यां मदनसुन्द- तन्मिलने इत्यर्थः उत्कण्ठितं-औत्सुक्ययुक्तं चित्तं-मनो यस्य स तथोक्तश्च पुनर्जनन्या-मातुनमने-नमस्करणे प्रवण:-तत्परः स श्रीपालो राजा प्रयाणढक्का:-प्रस्थानयशःपटहान् दापयति ।। ६२५ ॥ स श्रीपालो राजा मार्गे पदे पदे नरवरेन्द्रैः हयादिभिः 'भिट्टिजइ 'त्ति ढौक्यते, हया गजा रथा भटाः कन्याश्च प्रतीता मणयः--चन्द्रकान्ताद्या रत्नानि-माणिक्यादीनि शस्त्राणि वस्त्राणि च बहुविधानि तैरित्यर्थः, क्वचित्कनास्थाने 'कंचणत्ति' पाठस्तत्र काञ्चनं-सुवर्णमित्यर्थः ।। 8२६ ॥ एवम्-अमुना प्रकारेण स श्रीपालो राजा स्थाने स्थाने बहुसेनया विवर्द्धितो बलौघः-सैन्यसमूहो यस्य स एवम्भूतः सन् महीपीठे विस्तरति-विस्तारं प्राप्नोति, क इव ?-नदीभिर्वर्द्धितं नीरंपानीयं यस्य स एवम्भूत उदधिः-समुद्र इव, यथा भूपीठे विस्तरति तथेत्यर्थः ।। ६२७ ।।
१०४
Jain Educatio
n
For Private & Personel Use Only
www.jainelibrary.org