________________
मरहट्टय सोरट्ठय सलाडमेवाडपमुहळू वाले । साहंतो सिरिपालो मालवदेसं समणुपत्तो ॥ ९२८ ॥ तं परचक्कागमणं सोऊणं चरमुहाओ अइगस्यं । सहसत्ति मालविंदो भयभीओ होइ गढसो ॥ कपडचुप्पडकणति जलइंधणसंगहा य किज्जंति । सज्जिज्जंति अजंता तह सजिजंति वरसुहडा ॥ एवं सा उज्जेणी नय बहुजणगणेहिं संकिन्ना । परिवेढिया समंता तेणं सिरिपालसिन्नेणं ॥९३१॥
महाराष्ट्र सौराष्ट्रला सहित मेदपाटप्रमुखा देशविशेषास्तेषां ये भूपाला राजानस्तान् ( साधयन् ) श्रीपालो मालवदेशं सं- सम्यक् प्रकारेण अनुप्राप्तः ॥ ६२८ || मालवस्येन्दो - मालवेन्द्रः प्रजापालो राजा चरमुखात्- हेरिकमुखात् प्रतिगुरुकं - अतिमहत् तत्परचक्रागमनं-परसैन्यागमनं श्रुत्वा सहसा इति - अकस्मात् भयभीतः सन् दुर्गसजो भवति, दुर्गं सजीकृत्य स्थितवानित्यर्थः || ६२६ || तथाहि - ' कप्पड ' त्ति वस्त्राणि ' चुप्पड' त्ति घृतादि कणा - धान्यानि तृणानि - घास जलं- पानीयं इन्धनानि -ज्वालन काष्ठादीनि तेषां सङ्ग्रहाः क्रियन्ते च पुनः यन्त्राणि - शतघ्न्यादीनि सज्ज्यन्ते - सञ्जी क्रियन्ते, तथा वरसुभटाः - प्रधानशूरपुरुषाः प्रशस्यन्ते ॥ ६३० ॥ एवम् श्रमुना प्रकारेण सा उज्जयिनिनगरी बहूनां जनानां लोकानां गणैः- समूहैः सङ्कीर्णा सती तेन श्रीपाल सैन्येन समन्तात् - सर्वासु दिक्षु परिवेष्टिता ।। ९३१ ।।
Jain Education Intional
For Private & Personal Use Only
www.jainelibrary.org