________________
इअ भणिऊणं रन्ना नियकन्ना तस्स रायरायस्त ! दिन्ना सा तेणावि हु परिणोआ झत्ति तत्थेव ॥ तीए अ तिलयसुन्दरिसहियाओ ताउ अट्ठ मिलियाओ। सिरिपालस्त पिआओ मणोह
राओ परं तहति ॥ ९२१ ॥ जह अट्ठदिसाहिं अलंकिओऽवि मेरू सरेइ उदयसिरिं।जह वंछइ जिणभत्तिं अडग्गमहिसीजुओऽवि हरी
अवि अट्ठदिद्विसहिओ जहा सुदिट्री समीहए विरई । साहुजह ऽट्ठपक्यणमाइजुओवि हु सरइ समय। ___इति भणित्वा-उक्त्वा महासेनेन राज्ञा तस्मै राजराजाय-महाराजाय निजकन्या दत्ता, राज्ञां राजा राजराजस्तस्मै इति विग्रहः, a तेन श्रीपालमहाराजेनापि झटिति-शीघ्र तत्रैव स्थाने सा परिणीता ॥२०॥ तया च तिलकसुन्दर्या सहिता मनोहराः-सर्वजनमनोहारिण्यस्ताः श्रीपालस्य प्रिया अष्ट मिलिताः, परं तथापि स राजा नवमीं प्रियां स्मरतीत्युसरेण सम्बन्धः ॥ २१ ॥ कः कामिवेत्याह-यथाऽष्टदिशाभिः-पूर्वादिभिरलङ्कृतोऽपि-शोभितोऽपि मेरु:-सुरगिरिः उदयश्रियं-सूर्योदयलक्ष्मी स्मरति, पुनर्यथा अष्टभिरग्रमहिषीभिः-इन्द्राणीभिर्युतोऽपि-सहितोऽपि हरिः-इन्द्रो जिनभक्ति वाञ्छति ॥६२२॥ पुनर्यथाऽष्टदृष्टिभिर्मित्रा१ तारा२ बला३ दीप्रा४ स्थिरा५ कान्ता६ प्रभा७ पराम नामभिः सहितोऽपि सुदृष्टिः-सम्यग्दृष्टिरात्मा विरतिसावद्ययोगविरमणरूपां समीहते-वाञ्छति, अष्टदृष्टिस्वरूपं तु योगदृष्टिसमुच्चयाज्ज्ञेयम्, पुनर्यथा अष्टप्रवचनमाभिःसमितिपञ्चकगुप्तित्रयरूपाभिर्युतोऽपि साधुः हु इति निश्चितं समतां-समभावरूपां स्मरति ॥ ६२३॥
in Educatiemetiga
For Private & Personel Use Only
www.jainelibrary.org