________________
Jain Education Inter
नरवइदिन्नावासे सुक्खनिवासे रहेइ जा कुमरो । ता माउलनिवपुरिसा तस्साण्यणत्थमणुपत्ता ॥ कुमरो निअरमणीणं आणयणत्थं च पेसए पुरिसे । ताओवि सुंदरी सबंधुसहियाउ पत्ता ॥ मिलिनं च तत्य सिन्नं हयगयरह सुहडसंकुलं गरुयं । तेण समेओ कुमरो पत्तो ठाणाभिहाणपुरं ॥ श्राणंदिश्रो अ माउलराया तस्सुत्तमं सिरिं दद्धुं । सुंदरिचउक्कसहियं दद्दू परं च मयणाओ |
सुखः-सुखकारी निवासो यस्मिन् स सुखनिवासस्तस्मिन् नरपतिना - राज्ञा दत्ते आवासे यावत् कुमारो रहेइत्ति - तिष्ठति तावन्मातुलनृपस्य - वसुपालराजस्य पुरुषाः - सेवकास्तस्य-- कुमारस्यानयनार्थ - आकारणार्थं अनुप्राप्तः (प्ताः) H८६३ ॥ कुमारश्च निजरमणीनां स्वस्त्रीणां श्रनयनार्थं पुरुषान् प्रेषयति, ता अपि सुन्दर्यो - नार्यः स्वैः -- स्वकीयैर्बन्धुभिः -- भ्रातृभिः सहिताः प्राप्ताः, तत्रागता इत्यर्थः ॥ ८६४ ॥ च पुनः तत्र गुरुकं महत्सैन्यं मिलितं- एकत्रीभूतं, कीदृशं सैन्यं ?-- हयगजरथसुभटैः सङ्कुलं-व्याप्तं, तेन सैन्येन समेतः - सहितः कुमारः स्थानाभिधानं - स्थानाख्यं पुरं प्राप्तः ॥ ८५ ॥ च पुनः मातुर्भ्राता मातुलो राजा वसुपालस्तस्य कुमारस्य उत्तमां श्रियं दृष्ट्वा आनन्दित - आनन्दं प्राप्तः च पुनः मदना-मदनसेनाद्याः कुमारस्त्रिय. सुन्दरी चतुष्कसहितं चतसृभिः सुन्दरीभिर्युक्तं पतिं भर्त्तारं दृष्ट्वा श्रानन्दिताः || ८९६ ॥
For Private & Personal Use Only
www.jainelibrary.org