SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥६॥ तीसे पुरीई सुरवरपुरीई अहियाइ वण्णणं काउं । जइ निउणबुद्धिकलिओ, सक्कगुरू चेव सक्केइ ॥ ४४ ॥ वालकहा। तत्थत्थि पुहविपालो, पयपालो नामओ अ गुणओ अ । जस्स पयावो सोमो, भीमो विय सिदुद्दजणे ॥४५॥ तस्सवरोहे बहदेहसोहअवहरियगोरिगव्वेवि। अच्चंतं मणहरणे, निउणाओ दुन्नि देवीओ ॥ ४६॥ सोहग्गलडहदेहा, एगा सोहग्गसुंदरीनामा । बीया अ रूवसुंदरि, नामा रूवेण रइतुल्ला ॥ ४७ ॥ सुरवरपुर्या-इन्द्रपुर्या अधिकायाः तस्या उज्जयिनीपुर्या वर्णनं कर्तुम् यदि निपुणबुद्ध्या कलितो-युक्तः कश्चित् शक्नोति । तर्हि शक्रगुरुः-बृहस्पतिरेव शक्नोति-समर्थो भवति नान्य इति भावः, लोकोक्त्या बृहस्पतिः शक्रगुरुरुच्यते ॥४४॥ तत्र नगर्या प्रजापालो नाम पृथिवीपालो-राजास्ति, स च नामतश्च गुणतश्च प्रजापाल एव, प्रजाः पालयतीति व्युत्पत्तेः, स कीदृशः? इत्याह-यस्य प्रतापः शिष्टेषु दुष्टेषु च सौम्यो मनोहरो भीमो-भयङ्करश्चापि क्रमेण विद्यते, शिष्टेषु सत्पुरुषेषु । सौम्यः दुष्टेषु भीम इत्यर्थः॥४५॥ तस्य राज्ञो-अवरोधेऽन्तःपुरे द्वे देव्यौ-राज्यौ मनोहरणे-पत्युमनोरञ्जने अत्यन्तं निपुणे स्तः, कीदृशेऽ वरोधे ? बहुदेहशोभाऽपहृतगौरीगङ्केपि-बही या देहस्य-शरीरस्य शोभा तया अपहृतो गौर्याः-पार्वत्या गर्वो-अहङ्कारो येन स तस्मिन् एतादृशेपि अन्तःपुरे द्वे देव्यो विशेषतः सौभाग्यवत्यौ स्त इत्यर्थः॥४६॥ ते द्वे एव नामत आह-तयोर्मध्ये एका सौभाग्यसुन्दरी नामा द्वितीया च रूपसुन्दरी नामा, तत्राद्या कीदृशी?-सौभाग्यलडहदेहा-सौभाग्येन मनोहरो देहो यस्याः। सा तथा, द्वितीया रूपेण रतितुल्या ॥४७॥ Jain Education For Private & Personel Use Only w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy