________________
सा य केरिसा?-अणेगसो जत्थ पयावईओ, नरुत्तमाणं च न जत्थ संखा।
महेसरा जत्थ तिहे गिहेसु, सुचीवरा जत्थ समग्गलोया ॥ ४२ ॥ घरे घरे जत्थ रमंति गोरी-गणा सिरीओ अपए पए अ। वणे वणे यावि अणेगरंभा, रई अपीईविय ठाणठाणे ॥४३॥
सा च उज्जयिनीपुरी कीदृशी? इत्याह-यत्र यस्यां नगर्या अनेकशःप्रजानां पतयः सन्ति, लोके तु एक एव प्रजापतिःब्रह्मा प्रसिद्धोऽस्ति, तत्र तु अनेके प्रजानां सन्ततीनां पतयः-स्वामिनः सन्तीत्यर्थः, पुनः यत्र नगर्या नरोत्तमानां-पुरुषोत्तमानां सख्या नास्ति, लोके तु एक एव पुरुषोत्तमः श्रीकृष्णः प्रसिद्धोऽस्ति, तत्र तु बहवः पुरुषोत्तमाः सन्तीत्यर्थः, पुनः यत्र नगर्या । गृहे गृहे महेश्वराः-महर्द्धिकाः सन्ति, लोके तु एक इव महेश्वरः प्रसिद्धोऽस्ति, एकादश वा, तत्र तु गृहे गृहे इभ्याः सन्तीत्यर्थः, पुनः यत्र नगर्या समग्रलोकाः-सर्वलोकाः सचीवराः सन्ति, लोके तु एक एव शच्या-इन्द्राण्या वरः शचीवर-इन्द्रः प्रसिद्धोऽस्ति, तत्र तु सर्वेऽपि लोकाः सह चीवरैः-वस्त्रैर्वर्तन्ते इति सचीवराः सन्तीत्यर्थः ॥४२॥ यत्र नगर्या गृहे गृहे गौर्यः-अदृष्टरजसः कन्याः तासां गणाः-समूहा रमन्ते क्रीडन्ति, लोके तु कैलासे रममाणा एकैव गौरी-पार्वती प्रसिद्धास्ति, तत्र तु गृहे गृहे गौर्यः सन्तीत्यर्थः, लोके तु एकैव श्रीः-कृष्णभार्याऽस्ति, यत्र पदे पदे श्रियो-लक्ष्म्यः सन्ति, लोके तु एकैव रम्भा-देवाङ्गना प्रसिद्धाऽस्ति, यस्यां । नगर्या तु वने वनेपि अनेका रम्भाः-कदल्यः सन्ति, पुनः यत्र रतिश्च प्रीतिरपि च स्थाने स्थाने अस्ति, लोके तु रतिः-कामस्त्री सा एकवास्ति, प्रीतिरपि देवाङ्गना एकैवास्ति, तत्र तु स्थाने स्थाने रतिः-परस्पररागः प्रीतिश्चास्ति ॥ ४३ ॥
in Education
For Private & Personal Use Only
O
w.jainelibrary.org