________________
सिरिसिरि
॥५॥
पए पए जत्थ रसाउलाओ, पणंगणाओव्व तरंगिणीओ ।
पर पए जत्थ सुहंकराओ, गुणावलीओव्व वणावलीओ ॥ ३९ ॥ पए पए जत्थ सवाणियाणि, महापुराणीव महासराणी । पए पए जत्थ सगोरसाणि, सुहीमुहाणीव सुगोउलाणि ॥ ४० ॥ तत्थ य मालवदेसे, अकयपवेसे दुकालडमरेहिं । अत्थि पुरी पोराणा, उज्जेणी नाम सुपहाणा ॥ ४१ ॥
पुनः यत्र देशे पदे पदे रसाकुला - जलभृताः तरङ्गियो - नद्यः सन्ति, का इव ? - पणाङ्गना इव वेश्या इव यतस्ता अपि रसाकुलाः शृङ्गाररस्य (सेन) व्याप्ता भवन्ति, पुनर्यत्र देशे पदे पदे सुखङ्कराः - सुखकारिण्यः वनावलयो वनानां श्रेणयः सन्ति, का इव ? - गुणानामावलयः - श्रेण्य इव यतस्ता अपि सुखङ्करा भवन्ति ।। ३९ ।। पुनर्यत्र देशे पदे पदे सपानीयानि - पानीयसहितानि जलभृतानीति यावत् महान्ति सरांसि सन्ति, कानीव ? - महापुराणीव, यतः तान्यपि सह वाणिजैः- वणिग्भिर्वर्त्तन्ते इति सवा - णिजानि भवन्ति, पुनर्यत्र देशे पदे पदे सुष्ठु - शोभनानि गोकुलानि सन्ति, कीदृशानि ? - सह गोरसेन-दधिदुग्धादिना वर्त्तन्ते इति । सगोरसानि तानि कानि इव ? - सुधियां - पण्डितानां मुखानि इव, यतस्तान्यपि गोः - वाण्या रसो गोरसः तेन सहितानि भवन्ति ॥ ४० ॥ तत्र च - तस्मिन् मालवदेशे पुराणा- जीर्णा “उज्जयिनी ” नाम सुतरां प्रधाना पुरी अस्ति, कीदृशे मालवदेशे ? - दुष्कालेत्यादि, दुष्कालो-| दुर्भिक्षः डमरो- विप्लवः बलात् परद्रव्यापहरणा लुण्टिकोपद्रव इतियावत्, दुष्कालश्च डमरच दुष्कालडमरौ ताभ्यां अकृतः प्रवेशो यस्मिन् स तस्मिन् ॥ ४१ ॥
Jain Education!!
For Private & Personal Use Only
वालकहा ।
॥ ५॥
w.jainelibrary.org