________________
जेणं वरो वरिज मणनिव्वुइकारणेण कन्नाहिं । सा पुण धम्मविरोहे पइपत्तीणं कओ होइ? ॥८४७॥ तम्हा अम्हेहि परिक्खिऊण सम्म जिणिंदधम्ममि । जो होइ निच्चलमणो सो चेव वरो वरेअन्यो। भणिअं च पंडिमाए सामिणि! जुत्तं तए श्मं वुत्तं । किंतु निरुत्तो भावो परस्त नज्जइ कवित्तेणं ॥ ता काऊण समस्सापयांई सदिद्विपुरणिज्जाइं । अप्पेह जेहिं नज्जर सुहासुहो धम्मपरिणामो ॥ तो तीए कुमरीए अस्थि पन्ना श्मा कया जो उ। चित्तगयतमस्ताओ पुरिस्त सो वरेअवो॥८५१॥
येन कारणेन कन्याभिः मनोनितिकारणेन-मनःसुखनिमित्तं वरो-भर्ता त्रियते सा--मनोनिवृतिः पुनः पतिपत्न्यो-मतस्त्रियोर्द्धर्मविरोधे सति कुतो भवति ?, प्रायो न भवत्येवेत्यर्थः ॥८४७ ।। तस्मात् अस्माभिः सम्यक् परीक्ष्य यः पुमान् M जिनेन्द्रधर्मे निश्चलं मनो यस्य स निश्चलमना भवति स एव वरो-भर्चा वरितव्यो--वरणीयः ॥ ८४८॥ तदा पण्डितयापण्डितानाम्न्या सख्या च भणित-हे स्वामिनि ! त्वया इदं युक्तं ( उक्तं ) किन्तु-परन्तु परस्य-अन्यपुरुषस्य निरुक्तः-- अप्रकाशितो भावः--अभिप्रायः कवित्वेन ज्ञायते, यादृशं मनसि भवेत् तादृशं कवित्वे प्रादुर्भवतीत्यर्थः ॥८४६ ॥ तसात्सदृष्टिः-सम्यग्दृष्टिस्तेन पूरणीयानि-पूरयितुं शक्यानि समस्यापदानि कृत्वा अर्पयत-दत्त यैः पूरितैःशुभोऽशुभो वाधर्मपरिणामो ज्ञायते ॥८५०॥ ततः--तदनन्तरं तया कुमायो इयं प्रतिज्ञा कताऽस्ति, यस्तु चित्तगता--मनोगताः समस्याः पूरयिष्यते स पुमानसाभिर्वरितव्यः ।।८५१ ॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org