________________
तस्सुत्तमरायाणं पुत्तीओ राणियाउ चुलसीई । ताण मज्झमि पढमा गुणमाला - अस्थि सत्रिवेया ॥ तीय पंच पत्ता हिरण्णगन्भो य नेहलो जोहो । विजियारी अ सुकन्नो ताणुवरेिं पुत्तिया चेगा ॥ ॥ ६५ ॥ सा नामे सिंगारसुंदरि सिंगारिणी तिलुक्कस्स । रूपकलागुण पुन्ना तारुण् गालंकि असरीरा ॥८४४॥ ती जिधम्मरयाई पंडिआ तह विअक्खणा पउणा। निउणा दक्वत्ति सहीण पंवर्ग अतिथ जिगभतं ।। ताणं पुरो कुमारी भणे अम्हाण जिणमवरयाणं । जइ कोइ होइ जिणनय विऊ वरो तो वरं होई ॥
चिरिसिरि.
Jain Education
तस्य राज्ञ उत्तमराजानां पुत्र्यचतुरशीती राज्यः सन्ति, तासां मध्ये प्रथमा गुणमाला नाम राज्ञी अस्ति, कीदृशी :-- सविवेका-विवेकसहिता || ८४२ ॥ तस्याश्च राज्ञ्याः पञ्च पुत्राः सन्ति, तानेव नामत आह- हिरण्यगर्भः १ स्नेहल : २ योधः ३ च पुनः विजितारिः ४ सुकर्णः ५ एते पञ्च पुत्राः च पुनस्तेषां पुत्राणामुपरि एका पुत्रिकाऽस्ति ।। ८४३ ॥ सा कन्या नाम्ना शृङ्गारसुन्दरी अस्ति, कीदृशी ? - त्रैलोकस्य शृङ्गारिणी - शृङ्गारकारिणी - शोभाकारिकेत्यर्थः, पुनः रूपकलागुणैः पूर्णा-भृता तथा तारुण्येन अलङ्कृतं विभूषितं शरीरं यस्याः सा || ८४४ ॥ जिनधर्मे रताया- रक्तायास्तस्याः कन्यायाः ॐ सखीनां पञ्चकमस्ति तदेव नामतं आह-प्रथमा पण्डिता तथा द्वितीया विचक्षणा २ तृतीया प्रगुणा ३ चतुर्थी निपुणा ४ पचमी दक्षा इति कीदृशं सखीपञ्चकं ?-- जिनस्य - अर्हतो भक्तम् ।। ८४५ ।। कुमारी तासां सखीनां पुरः- अग्रे मणति, जिनमतेजिनशासने रताना रक्तानां अस्माकं यदि कोऽपि जिनमतवित्-जिनमनज्ञः पुमान् वरो-भर्त्ता भवेत् तत् तर्हि वरं शोभनं भवति ।।
tional
For Private & Personal Use Only
वाल कहा।
॥ ६५ ॥
www.jainelibrary.org