________________
खुजेण तेण तह कहवि दंसिओ विक्कमो रणे तत्थ । जह रंजिअचित्तेहिं सुरेहि मुक्का कुसुमबुट्ठी॥ । तं दट्टणं सिरिवजसेणरायावि रंजिओ भणइ । जह पयडियं बलं तह रूवं पयडेसु वच्छ ! नियं ॥
तकालं च कुमारं सहावरूवं पलोइऊण निवो। परिणाविअ नियधूयं साणंदो देइ आवासं १८३९॥ तत्य ठिओ सिरिपालो कुमरो तियलुकसुंदरीसहिओ।पाव परमाणंदं जीवो जह भावणासहिओ। अन्नदिणे कोइ चरो रायसहाए समागओ भणइ । देवदलपट्टणंमी अस्थि नरिंदो धरापालो ॥
तेन कुब्जेन तत्र रणे-सङ्गामे तथा तेन प्रकारेण कथमपि विक्रमः-पराक्रमो दर्शितो, यथा रजितचित्तैः-प्रसन्नीभूतमानसैः सुरैः-देवैः कुसुमानां-पुष्पाणां वृष्टिर्मुक्ता कृतेत्यर्थः ॥८३७॥ तं-कुब्जपराक्रमं दृष्ट्वा श्रीवज्रसेनराजापि रञ्जितः सन् भणति, किं भणतीत्याह-हे वत्स ! यथा त्वया स्वकीयं बलं प्रकटित-प्रकटीकृतं तथा निजं रूपं प्रकटय-प्रकटीकुरु ॥८३८॥ च पुनः नृपो-राजा तत्कालं स्वभावरूपं-स्वमूलरूपयुक्तं कुमारं प्रलोक्य निजपुत्री परिणाय्य सानन्दः-सहपेः सन् निवासार्थे श्रावासं-प्रासादं ददाति ॥ ८३९ ।। तत्र-आवासे स्थितखैलोक्यसुन्दर्या सहितः श्रीपालः कुमारः परम-उत्कृष्टं आनन्द प्राप्नोति, कया सहितः क इव ?-भावनया-सध्यवसायपरिणत्या सहितो जीवो यथा, यथाशब्द इवार्थे, यथा सद्भावनासाहता जीवः परमानन्दं प्राप्नोति ।। ८४० ॥ अन्यस्मिन् दिने कोऽपि चरो-हेरिको राजसभायां समागतो भणति-देवदलनाम्न पत्तने धरापालो नाम नरेन्द्रो-राजाऽस्ति ।। ८४१॥
Jain Education
anal
For Private
Personel Use Only
www.jainelibrary.org