________________
चिरिमिरि
॥ ६४ ॥
Jain Educatio
जइ किरि मुद्धा सामुइगुणापि पुरिसाणं । तहवि हु एरिस कन्नारयणं खुज्जस्स न सहामो झति चयसु मानो वा अम्हं करालकरवालो । एसो तुहगलनालं लुणिही नूणं सवरमालं !! हसिऊण भणइ खुज्जोइ किरि तुम्भे इमीइ नो वरिया । दोहग्गदङ्कदेहा कीस न रूसेह ता विहिणो ? ॥ इह पुण तुम्हाणं परित्थमहिलारूस विहिअपावाणं । सोहणखमं इमं मे असिधारा तित्थमेव ऽत्थि ।। इअ भणिऊणं तेसिं खुज्जेणं दंसिया तहा हत्था । जह ते भीइविहत्था सव्वेऽवि दिसोदिसं नहा ॥
यदि किला मुग्धा - भद्रकस्वभावा पुरुषाणां गुणाश्च अगुणाथ एषां समाहारो गुणागुणमपि न मुगति-न जानाति तथापि ईदृशं कन्यारत्नं कुब्जस्य न ( स ) हामहे ॥ ८३२ ॥ तद - तस्मात्कारणात् झटिति - शीघ्रं मालां त्यज, यदि पुनर्न त्यक्ष्यसि तर्हि अस्माकं एप करालो - विकराल ः करवाल : --तरवारिः सवरमाल - वरमालया सहितं तव गलनालं लविष्यतिछेत्स्यति ॥ ८३३ ॥ ततः कुब्जो हसित्वा भणति -- यदि किल अनया कन्यया यूयं न वृताः कीदृशा यूयं ? - दौर्भाग्येण दग्धो देहः शरीरं येषां ते ईदृशाः तत् तर्हि विधेः- भाग्यस्य कथं न रुष्यथ १ येन यूयं दौर्भाग्य दूषिताः कृता इति भावः ॥ ८३४ || इदानीं साम्प्रतं पुन: परस्त्रिया योऽभिलाषो वाच्छा तेन विहितं कृतं पापं यैस्ते तादृशानां युष्माकं शोधनक्षमं शुद्धिकरणमर्थं इदं मे मम असिधारा खड्गधारा तद्रपं तीर्थमेवास्ति || ८३५ ॥ इति भणित्वा कुब्जेन तेभ्यो - नृपेभ्यस्तथा हस्तौ दर्शितौ यथा ते राजानः सर्व्वेऽपि भीत्या - भयेन विहस्ता-व्याकुलाः सन्तो दिशोदिशं नष्टाः || ८३६ ॥
national
For Private & Personal Use Only
वालकहा ।
॥ ६४ ॥
www.jainelibrary.org