SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern जा पडिहारी थक्का सयलं निवमण्डलंपि वन्नित्ता । ताव कुमारी सपिअं खुज्जं पासेइ सविलक्खा ॥ इत्थंतरंमि थंभट्टि वरपुत्तलीइ वयणंमि । होऊण हार हिट्ठायग देवो एरिसं भणइ ॥ ८२८ ॥ यदि धन्याऽसि विज्ञाऽसि, जानासि च गुणान्तरम् । तदैनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् ॥ ८२९ ॥ तं सोऊण कुमारी वरे तं झत्ति कुज्जरूवंपि । कुमरो पुण सविसेसं दंसेइ कुरूवमप्पाणं ॥ ८३० ॥ इत्थंतरंमि सव्वे रायाणो अक्खिवंति तं खुजं । रे रे मुंचसु एयं वरमालं अप्पणो कालं॥ ८३१ ॥ यावत् प्रतीहारी सकलं - समस्तमपि नृपमण्डलं- राजसमूहं वर्णयित्वा 'थक ' ति मौनमाधाय स्थिता तावत्कुमारी स्वप्रियं कुब्जं पश्यति, कीदृशी सती ?-- सह वैलक्ष्येण वर्त्तते इति सविलच्या विलक्षवदना सतीत्यर्थः ।। ८२७ ॥ अत्रान्तरेअस्मिन्नवसरे स्तम्भस्थिताया- वरपुत्रिकाया वदने- मुखे भूत्वा प्रविश्येत्यर्थः हारस्याऽधिष्ठायकदेव ईदृशं भणति ॥ ८२८ ॥ किं भणतीत्याह-हे वत्से !--हे पुत्रि यदि त्वं धन्यासि पुनर्विशेषेण जानासि विज्ञाऽसि च पुनर्गुणानामन्तरं - भेदं जानासि तदा एनं कुब्जकाकारं नरोत्तमं - पुरुषोत्तमं वृणु-अङ्गीकुरु ।। ८२६ ।। तत् श्रुत्वा कुमारी झटिति - शीघ्रं कुब्जरूपमपि तं कुमारं वृणोति कुमारः पुनः आत्मानं सविशेषं कुरूपं दर्शयति, लोकेभ्य इति शेषः || ८३० ॥ अत्रान्तरे सर्वे राजानस्तं कुब्जं आक्षिपन्ति - आक्रोशन्ति, कथमित्याह - रेरे कुब्ज ! एतां वरमालां मुञ्च त्यज कीदृशीं वरमालां ?--आत्मनः कालं-कालरूपाम् ॥ ८३१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy