________________
हडहड हसंति सव्वे अहो इमो एरिसो सरूवोवि । जइन वरिस्सइ नरवरधूया तो सा कहं होही ? | इत्यंतरंमि नरवरधूया नरवरविमाणमारूढा । खीरोदगवरवत्या मुत्ताहलनिम्मलाहरणा ॥ ८२०॥
करकलिअविमलमाला समागया मूलमंडवे जाव । ता सहसच्चिअ कुमरं सहावरूवं पलोएइ॥८२१॥ म तं दट्टण पमुइयचित्ता चिंते सा निवइधूया । रे मण! आणंदेणं वसु एयस्स लंभेणं ॥ ८२२ ॥
एतत् कुब्जवचनं श्रुत्वा सर्वे नृपकुमारादयो हडहड इति हसन्ति, पुनरेवं वदन्ति-अहो इमं ईदृशं सरूप-रूपवन्तमपि यदि नरवरस्य-राज्ञः पुत्री न वरिष्यति तत--तहि सा कन्या कथं-केन प्रकारेण भविष्यति ॥८१६।। अत्रान्तरे--अस्मिन्नवसरे
क्षीरोदकवरवस्त्रा-परिहितोज्ज्वलतरप्रधानवस्त्रा पुनर्मुक्ताफलानां निर्मलानि आभरणानि-हाराद्याभूषणानि यस्याः सा - ईदृशा नरवरपुत्री वरं-प्रधानं यनरविमानं-शिविकादिलक्षणं तत् आरूढा सती ॥ ८२०॥ पुनः करे-हस्ते कलिता-प्राप्ता विमला-निर्मला माला यस्याः सा एवम्भूता च सती यावन्मूलमण्डपे समागता तावत् सहसा एव-सद्य एव कुमारं स्वभावरूपं-स्वमूलरूपयुक्तं प्रलोकयति-पश्यति ॥ ८२१ ॥ अथ सा नृपते-राज्ञः पुत्री तं-स्वभावरूपं श्रीपालकुमारं दृष्ट्वा प्रमुदितं-हर्षितं चित्तं यस्याः सा एवम्भूता सती चिन्तयति-विमृशति, किं चिन्तयतीत्याह-रे मनस्त्वं एतस्य-वरस्य लाभेन आनन्देन वर्तस्व ॥ ८२२ ।।
lain Education In
n a
For Private & Personel Use Only
www.jainelibrary.org