________________
| आसाढपढमपक्खे बीयाए अत्यि तत्थ सुमुहुत्तो। कले सा पुण बीआ मग्गो पुण जोअणे तीसं ॥
तं सोऊणं कुमरेण तस्स पहिअस्स दावि झत्ति । नेिअतुरयकंठकंदलनूसणसोवन्नसंकलयं ॥ | कुमरो अनिआवासं पत्तो चिंतेइ पच्छिमनिसाए । काऊण खुज्जरूवं तंपि हु गंतूण पिच्छामि ॥
हारस्स पभावेणं संपत्तो तत्थ खुज्जरूवेणं । पिच्छेइ रायचकं उबविट्ठ उच्चमंचेसु ॥ ८१३ ॥ H कमरोवि खजरूवो सयंवरामंडवामि पविसंतो। पडिहारेण निसिद्धो देड तो तस्त करकडयं ॥
आषाढमासस्य प्रथमपक्षे द्वितीयायां तिथौ तत्र-तस्मिन्नगरे विवाहस्य सुमुहूर्तोऽस्ति, सा द्वितीया पुनः कल्ये-प्रभातेsस्ति मार्गः पुनस्त्रिंशद्योजनानि अस्ति ॥ ८१० ॥ तत्पथिकवचनं श्रुत्वा कुमारण तस्मै पथिकाय झटिति-शीघ्रं निजतुरगस्य-स्वकीयाश्वस्य यः कण्ठकन्दलस्तस्य भूषणं-शोभाकारकं यत्सौवरण-स्वर्णमयं सङ्कलकं तदापितम् , कण्ठो-गलः कन्दल इव-नवाकुर इवेति कण्ठकन्दलः ।। ८११॥ कुमारश्च निजावासं-स्वमन्दिरं प्राप्तः सन् पश्चिमरात्रौ चिन्तयति, किमित्याह-कुब्जरूपं कृत्वा तत्र गत्वा हु इति निश्चितं तमपि खयवरामण्डपं प्रेक्षे-पश्यामीत्यर्थः ।। ८१२ ॥ ततः कुमारो हारस्य प्रभावेण तत्र-पुरपार्श्ववर्तिस्वयंवरामण्डपे कुब्जरूपेण सम्प्राप्तः सन् उच्चमश्चेषु उपविष्टं-आसीनं राजचक्र-राज्ञां समूहं प्रेक्षते-पश्यति ॥ ८१३ ।। कुमारोऽपि कुब्जरूपः स्वयंवरामण्डपे प्रविशन् प्रतीहारेण-द्वारपालेन निषिद्धो-निवारितस्ततः-तदनन्तरं तस्मै-प्रतीहाराय करस्य कटकं-वलयं ददाति ।। ८१४॥
Jain Education in asional
For Private & Personel Use Only
www.jainelibrary.org