SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter इअ चिंतिऊण सम्मं नवपयझाणं मणमि ठावित्ता । तह झाइउं पवत्तो कुमरो जह तक्खणा चेव ॥ सोहम कप्पवासी देवो विमलेसरो समणुपत्तो । करकलिउत्तमहारो कुमरं पइ जंपए एवं ॥ ७७३ ॥ इच्छाकृतिर्व्योमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तममुं गृहाण || ७७४ ॥ इति चिन्तयित्वा सम्य नवपदध्यानं मनसि स्थापयित्वा कुमारः श्रीपालस्तथा तेन प्रकारेण ध्यातुं प्रवृत्तो-यथा तत्क्षणादेव-तत्कालमेव || ७७२ । सौधर्मकल्पवासी-सौधर्माख्यदेवलोकनिवासी विमलेश्वरो नाम देवः समनुप्राप्तः, तत्र सम्प्राप्तः सन् * कुमारं प्रति एवं वच्यमाणप्रकारेण जल्पति वक्ति, कीदृशो देवः ? - करे - हस्ते कलितः - प्राप्तः उत्तमः - प्रधानो हारो यस्य स - ॐ एवंविधः ॥ ७७३ ।। एवं कथमित्याह हे कुमार ! त्वं अमुं हारं गृहाण, तं कं इत्याह-यत्र - यस्मिन् हारे कण्ठे स्थिते सति श्रवश्यं-निश्चयेन एतानि पञ्च कार्याणि भवन्ति, तथाहि - इच्छया आकृतिः इच्छाकृतिः, यादृशी इच्छा भवेत् तादृशो देहाकारो ॐ भवेत् १ तथा व्योम्नि - श्राकाशे गतिः - गमनं - व्योमगतिः २ तथा कलासु सर्वास्वपि प्रौढिः - प्रागल्भ्यं निपुणत्वमितिया - वत् ३ तथा जयः - शत्रूणां पराजयप्रापणम् ४ तथा सर्वेषां विषाणामपहार : - अपहरणं सर्वविषापहारः ५ ।। ७७४ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy