SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ इतोय जोयणसए कुंडलनयरं समत्थि विक्खायं । तत्थऽस्थि गुरुपयावो राया सिरिमगर केउत्ति ॥ तरस कप्पूरतिलया देवी कप्पूरविमलसीलगुणा । तत्कुच्छिभवा सुंदरपुरंदरक्खा दुवे पुत्ता ||७६३॥ ताण उवरिं च गा पुती गुणसुंदरित्ति नामेां । जा रुवेगं रंभा बंभी अ कलाकलावे ||७६४ ॥ ती कया पन्ना जो मं वीणाकलाइ निजिरण । सो चेव मज्झ भत्ता अन्नेहिं न किंपि मह कज्जं ॥ तं सोऊ पत्ता तत्थ नरिंदाण नंदणाऽणेगे । वीणा ए अब्भासं कुणमाणा संति पइदिवसं ॥ ७६६। इतश्च-अस्मान्नगरात् योजनशते विख्यातं - प्रसिद्धं कुण्डलपुरनामकं नगरं - समस्ति, तत्र गुरु: - महान् प्रतापो यस्य स गुरुप्रतापः श्री मकरकेतुरिति नाम्ना राजाऽस्ति || ७६२ ।। तस्य राज्ञः कर्पूरतिलकानाम देवी - राज्ञी अस्ति, कीदृशी ? - कर्पूरवद्विमलो निर्मलः शीलगुणो यस्याः सा कर्पूर० तस्याः कुक्षौ भव- उत्पत्तिर्ययोस्तौ तत्कुक्षिभवौ सुन्दरपुरन्दराख्यौ -सुन्दपुरन्दरनामानौ द्वौ पुत्रौ स्तः ॥ ७६३ ॥ तयोः पुत्रयोरुपरि च एका गुणसुन्दरीति नाम्ना पुत्री अस्ति, या पुत्री रूपेणलावण्येन सौन्दर्येणेत्यर्थः रम्भा रम्भादेवाङ्गनातुल्या वर्त्तते, च पुनः कला कलापेन- कलानां समूहेन ब्राह्मी-सरस्वती तुल्याऽस्ति ।। ७६४ ।। तया प्रतिज्ञा कृताऽस्ति, की दृशीत्याह यः पुमान् वीणाकलया - वीणावादनचातुर्येण मां निर्जयति - निःशेषेण जयति स एव मम भर्त्ता, अन्यैः पुरुषैर्मम किमपि कार्य - प्रयोजनं नास्ति || ७६५ ॥ तत् श्रुत्वा तन्नगरे अनेके बहवो नरेन्द्राणां - राज्ञां नन्दनाः- पुत्रा प्राप्ताः, प्रतिदिवसं प्रत्यहं वीणाया अभ्यासं कुर्वाणाः सन्ति ॥ ७६६ ॥ Jain Education Intonal For Private & Personal Use Only | www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy