________________
। तं सोऊणं ताओ मयणाओ हरिसियाओ चित्तंमि । तेणं मणवल्लहेणं नूणं आणाविया अम्हे।।७३२॥
सिबिआए चडिआओ संपत्ता नरवरिंदभवणंमि । दट्ठण पाणनाहं जाया हरिसेण पडिहत्था॥७३३॥ । रत्नावि पुच्छियाओ वच्छा ! भंजेह अम्ह संदेहं । को एसो वुत्तंतो? कहेह आमूलचूलंति ॥७३॥
तो विजाहरधूया कहेइ सव्वपि कुमरचरिअं जा। ताव निवो साणंदो भणइ श्मो भणिपुत्तो मे॥ गाढयरं संतुट्ठो राया कुमरस्स दे बहुमाणं । डुंब सकुडुंबंपि हु ताडावइ गरुअरोसेण ॥ ७३६ ॥
तद्वचनं श्रुत्वा ते मदने चित्ते हर्षिते, कथं हर्षिते इत्याह-नून-निश्चितं तेन मनोवल्लभेन-भत्री आवां आनायिते-आकारिते स्वः, इत्थं हर्षिते इत्यर्थः ॥ ७३२ । ततः शिबिकायां-सुखासने चटिते-आरूढे द्वे अपि स्त्रियौ नरवरेन्द्रस्य-राजेन्द्रस्य वसुपालस्य भवने-मन्दिरे प्राप्ते, तत्र च प्राणनाथं-भर्तारं दृष्ट्वा हर्षेण-आनन्देन प्रतिहस्ते-परिपूणे व्याप्ते इतियावत् जाते ।। ७३३ ।। राज्ञापि इति-अमुना प्रकारेण पृष्टे-हे वत्से-हे पुत्र्यौ ! युवां अस्माकं सन्देह-संशयं भङ्कतं-दूरीकुरुतं, एप को वृत्तान्तः एषा का वार्ताऽस्ति ? आमूलचूलं कथयतं-मूलादारभ्य चूला यावद्वदतमित्यर्थः ।। ७३३ ।। ततः-तदनन्तरं विद्याधरराजस्य पुत्री यावत्सर्वमपि कुमारस्य चरितं कथयति तावन्नृपो-वसुपालो राजा सानन्दो-हर्षसहितः सन् भणति, अयं कुमारो मम भगिनीपुत्रो, भागिनेयोऽस्तीत्यर्थः ।। ७३५ ॥ ततो गाढतरं-अत्यन्तं सन्तुष्टो राजा कुमाराय बहुमानं ददाति, हु निपातोत्र पुनरर्थे, पुनर्गुरुकरोषेण-तीत्रक्रोधेन सकुटुम्ब-कुटुम्बसहितमपि डुम्ब ताडयति-भृत्यैः कुट्टयति ॥ ७३६ ॥
Jain Education in
For Private Personal Use Only
www.jainelibrary.org