________________
Jain Education Inter
गाढयरं रुद्वेणं रन्ना नेमित्तिओ कुमारो अ । हणणत्यं श्राइट्ठा निययाणं जाव सुहडाणं ॥ ७२२ ॥ तामयणमंजरीवि हु सुणिऊण समागया तहिं झत्ति । पभणेइ ताय! किमिमं अवियारियकज्जकरणंति ? | आयाणवि नज्जइ कुलंत लोएवि गिज्जए ताय ! | लोओत्तर आयारो किं एसो होइ मायंगो ? ॥७२४ ॥ तो पुच्छइ नरनाहो कुमरं भो ! निकुलं पयासेसु । ईसि हसिऊण कुमरो भणइ अहो तुज्झ छेत्तं ॥ हवा नरवर! तुम एयं अक्खाणयं कयं सचं । पाऊण पाणियं किर पच्छा पुच्छिनए गेहं ॥७२६॥
ततो गाढतरं - अत्यर्थं रुष्टेन राज्ञा नैमित्तिकः कुमारश्च निजकेभ्यः - स्वकीयेभ्यः सुभटेभ्यो यावत् हननार्थं - मारणार्थं आदिष्टौ - आज्ञप्तौ ॥ ७२२ ॥ तावन्मदनमञ्जरी नृपपुत्री अपि एतां वार्त्ता श्रुत्वा झटिति - शीघ्रं तत्र प्रदेशे समागता, आगत्य च प्रकर्षेण भणति, हे तात !-हे पितः । किमिदं अविचारितस्य कार्यस्य करणं इति ॥ ७२३ ।। पुनः किं भणती - त्याह-हे तात ! आचारेणापि कुलं ज्ञायते इति लोकेऽपि गीयते - कथ्यते, 'आचारः कुलमा ख्याती 'तिवचनात् लोकेभ्य उत्तरउपरिवर्त्ती प्रवरो वा आचारो यस्य स एवंविध एप कुमारः किं मातङ्गः चण्डालो भवति ॥ ७२४ ॥ ततो नरनाथो- राजा कुमारं पृच्छति, भो कुमार ! निजकुलं प्रकटीकुरु, तदा कुमार ईषत् हसित्वा भणति, अहो तव छेकत्वं प्रतिनिपुणत्वं यतः पूर्वं स्वपुत्रीं दत्त्वा पश्चात्कुलं पृच्छसीतिभावः ॥ ७२५ ।। अथवा हे नरवर हे राजन् ! त्वया एतत् श्राख्यानकं-लौकिककथनं सत्यं कृतं एतत्किमित्याह - पानीयं पीत्वा किल पश्चाद् गृहं पृच्छ्यते - कस्येदं गृहमिति ।। ७२६ ॥
For Private & Personal Use Only
www.jainelibrary.org