________________
E एगंते डुंबं पइ सो जंपइ देमि तुज्ञ नूरिधणं । जइ एक मह कजं करेसि केणवि उवाएणं॥ ७०२ ॥
डुबोऽवि भणइ पढमं कहेह मह केरिसं तयं कजं । जेण मए जाणिजइ एयंसझं मसझंवा ॥७०३॥ धवलो भणेइ जो नरवरस्स जामाउओ इमो अत्थिाजइ तं मारोसि तुमंता तुह मुहमग्गियं देमि॥ | डुबो भणे तं मारणमि इक्कुत्थि एरिसोवाओ। जं अन्नायकुलं तं पयडिस्सं एस डुंबुत्ति॥७०५॥ तत्तो राया जामाउअंपि तं जमगिहमि पेसेहि । एवं च कए नृणं होहीतुह कजसिद्धीवि ।।७०६॥
एतद् डुम्बवचनं श्रुत्वा स श्रेष्ठी एकान्ते डुम्बं प्रति जल्पति-कथयति, तुभ्यं भूरि-प्रचुरं धनं ददामि, यदि केनापि उपायेन एकं मम कार्य करोषि, एतद्धवलवचः श्रुत्वा ॥ ७०२ ।। डुम्बोऽपि भणति-कथयति, प्रथमं मह्यं कथय तत्कार्य कीदृशमस्ति, येन कथनेन मया ज्ञायते एतत्कार्य साध्यं असाध्यं वा ॥ ७०३ ॥ तदा-धवलो भणति, योऽयं नरवरस्यराज्ञो जामाताऽस्ति, यदि तं नृपजामातरं त्वं मारयसि तत्-तर्हि तव मुखमागितं ददामि--तुभ्यं दानं ददामीत्यर्थः ॥७०४|| डुम्बो भणति, तस्य-नृपजामातुर्मारणे एक ईदृश उपायोऽस्ति, क इत्याह-यत्-यतो न ज्ञातं कुलं यस्य सोऽज्ञातकुलस्तं तथाविधं तं-नृपजामातरं एष डुंब इति प्रकटयिष्यामि ॥ ७०५ ।। ततः-तदनन्तरं राजा तं जामातरमपि यमगृहे प्रेषयिष्यति, एवं च कृते सति नूनं-निश्चितं तव कार्यसिद्धिरपि भविष्यति ।। ७०६ ।।
-
Jain Education interdih!
For Private & Personel Use Only
www.jainelibrary.org