________________
रायावि सत्यवाहस्स तस्स दावेइ गुरुपबहुमाणं । तंबोलं तेणं चिय सिरिपालेणं विसेसेणं ॥६९२॥ सिरिपालकुमारेणं नाओ सिट्टी स दिमित्तोवि । सिट्ठी पुण सिरिपालं दट्टणं चिंतए एवं १६९३॥ धिद्धी किं सो एसो सिरिपालो धवलसिटिणो कालो। किंवा तेण सरिच्छो अन्नो पुरिसोइमो कोऽवि?
ठाऊण खणं नरवरसहाइ जा उट्टिओ धवलसिट्ठी । पडिहाराओ पुच्छइ थआइत्तो इमो को उ?॥ । तेणं कहिओ सोऽवि तस्स कुमरस्स चरिअवुत्तंतो।तं सोऊणं सिट्ठी जाओ वजाहउव्व दुही ॥६९६॥
राजाऽपि तस्मै सार्थवाहाय तेन श्रीपालेनैव विशेषेण गुरुको-महान् बहुमानो यत्र तद्गुरुकबहुमानं ताम्बूलं दापयति ॥ ६९२ ॥ श्रीपालकुमारेण स धवलश्रेष्ठी दृष्टमात्रोऽपि ज्ञात-उपलक्षितः, श्रेष्ठी पुनः श्रीपालं दृष्ट्वा एवं चिन्तयति, किं चिन्तयतीत्याह ॥ ६६३ ॥ धिग् धिगस्तु, स एष किं श्रीपालोस्ति, कीदृशः श्रीपालः ?-धवलश्रेष्ठिनः कालः-कालतुल्यः, किंवा तेन-श्रीपालेन सदृक्षः-तुल्योऽयं कोऽपि अन्यः पुरुषोऽस्ति ॥ ६६४ ॥ एवं चिन्तयित्वा धवलश्रेष्ठी क्षणं यावन्नरवरस्य राज्ञः सभायां स्थित्वा यावत् उत्थितस्तावदहिरागत्य प्रतीहारान्-द्वारपालान् पृच्छति, प्रतीहारं पृच्छतीत्यर्थः, किमित्याह-अयं 'थइयाइत्त' ति ताम्बूलदानाधिकारी कः पुरुषोऽस्ति ॥ ६६५॥ तेन प्रतीहारेण तस्य कुमारस्य सर्वोऽपि चरितवृत्तान्तः कथितः, तं वृत्तान्तं श्रुत्वा श्रेष्ठी वजाहत इव दुःखीजातः ॥ ६६६ ॥
Jain Education Li
ne का
For Private
Personel Use Only