SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा। असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ । तं चारित्तं उत्तमगुणजुत्तं पालह निरुत्तं ॥३१॥ घणकम्मतमोभरहरणभाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्मं ॥ ३२ ॥ एयाइं नवपयाई, जिणवरधम्ममि सारभूयाइं । कल्लाणकारणाइं, विहिणा आराहियव्वाइं॥ ३३ ॥ अन्नं च-एएहिं नवपएहिं, सिद्धं सिरिसिद्धचक्कमाउत्तो । आराहतो संतो, सिरिसिरिपालुव्व लहइ सुहं॥३४॥ यः अशुभक्रियाणां-पापव्यापाराणां त्यागश्च पुनः शुभासु क्रियासु-निरवद्यन्यापारेषु अप्रमादः-अप्रमत्तता तच्चारित्रं यूयं पालयत, कीदृशं तत?-उत्तमगुणैर्युक्तम्, पुनः कीदृशं?-निरुक्तम् पदभजनेन निष्पन्नं, तथाहि चयः कर्मसञ्चयो रिक्तो भवति अनेनेति चारित्रं (बाहुलकात् साधु ) ॥३१॥ भो भव्याः! यूयं सम्यक तपःकर्म-तपःक्रियां चरत-आचरत, कीदृशं तपःकर्म ?घनानि-निविडानि यानि कर्माणि-ज्ञानावरणादीनि तान्येव तमांसि-अन्धकाराणि तेषां भरः-समृहः तस्य हरणे भानुभूतं-सूर्यतुल्यं, पुनः कीदृशं तपः?-द्वादशाङ्गधरं तपसो द्वादशभेदत्वात्, सूर्यपक्षे लोके द्वादशसूर्याणां रूढत्वात् , नवरं इति विशेषः सर्यस्तापकारको भवति इदं तपस्तु अकषायतापं न विद्यते कषायरूपस्तापो यस्मिंस्तत् , एतावता कषायरहितमेव तपः सेव्यमित्यर्थः ॥ ३२ ॥ एतानि नवपदानि जिनवरधर्मे-श्रीजिनोक्तधर्मविपये सारभूतानि अत एव कल्याणकारकाणि सन्ति, तस्माद्विधिना आराध्यानि भवद्भिरिति शेषः ॥ ३३ ॥ अन्यच्च-अन्यदपि शृणुत एतैनवभिः पदैः सिद्धं-निष्पन्नं श्रीसिद्धचक्रं आयुक्त-उद्यमयुक्त आराधयन् सन् श्रीश्रीपालनामा राजा इव सुखं लभते मनुष्य इति शेषः ॥ ३४ ॥ ॥४॥ Jain Education a l For Private 8 Personal Use Only adainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy