________________
गणतित्तीसु निउत्ते, सुत्तत्थज्झावणंमि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए ॥२७॥ सव्वासु कम्मभूमिसुं, विहरंते गुणगणेहि संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए ॥ २८॥ सव्वन्नुपणीयागमपयडियतत्तत्थसहहणरूवं । दसणरयणपईवं, निच्चं धारेह मणभवणे ॥२९॥ जीवाजीवाइपयत्थसत्थतत्तावबोहरूवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं ॥३०॥
भो भव्या यूयं सम्यक्-यथा स्यात्तथा उपाध्यायान् ध्यायत, कीदृशान् उपाध्यायान् ?-गणस्य-गच्छस्य तप्तिषु-सारणादिषु नियुक्तास्तान् अधिकारिण इत्यर्थः, पुनः ?-मूत्रार्थाध्यापने उद्यतान्-उद्यमवत इत्यर्थः, स्वाध्याये लीनं-मग्नं मनो येषां ते तान् । ॥२७॥ भो भव्या यूयं सर्वासु कर्मभूमिषु-भरतादिपञ्चदशक्षेत्रेषु विचरतो मुनिराजान्-साधून ध्यायत, कीदृशान् मुनिराजान् ?गुणानां गणैः-समूहैः संयुक्तान्, पुनः?-गुप्तान्-गुप्तित्रययुक्तान्, पुनः?-मुक्तान् सर्वसङ्गवर्जितान्,पुनः?-निष्ठिता-अन्तं प्राप्ताः कषाया है येषां ते तान् ॥ २८ ॥ भो भव्याः ! सर्वज्ञैः प्रणीता-उक्ताः ये आगमाः-सिद्धान्तास्तेषु प्रकटिताः-प्रकटीकृता ये तत्त्वार्थाः तद्रपा अर्थास्तेषां यत् श्रद्धानं तद्रपं दर्शनरत्नप्रदीपं-सम्यक्त्वरूपरत्नप्रदीपकं नित्यं सर्वदा मनोभवने मनोमन्दिरे धारयत ॥ २९ ॥ भो भव्याः! जीवाजीवादयो ये पदार्थास्तेषां सार्थः-समूहस्तस्य यस्तत्त्वावबोधः-तत्त्वज्ञानं स्वरूपं यस्य तत् एवंविधं च-पुनः ज्ञानं | विनयेन-विनयं कृत्वा यूयं शिक्षत, कीदृशं ज्ञानं ?-सव्र्वगुणानां मूलं-मूलकारणम् ॥ ३० ॥
Jain Educati
on
For Private Personal Use Only