________________
सिरिसिरि
जावालकहा।
३॥
तत्थऽरिहंतेऽवारसदोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निचंपि ॥ २४ ॥ पनरसभेयपसिडे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं ॥ २५॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते । परउवयारिकपरे, निच्चं झाएह सूरिवरे ॥ २६ ॥
तत्र तस्मिन् पदनवके प्रथमपदे नित्यमपि अर्हतो ध्यायत, यूयमिति शेषः, कीदृशान् अर्हतः?-अष्टादशदोपैर्विमुक्तान् पुनविशुद्धं-निर्मलं यत् ज्ञानं तत्स्वरूपमयानिति, पुनः प्रकटितानि तत्त्वानि यैः ते तान् , पुनर्नताः सुरराजा-इद्रा येभ्यस्ते तान् ॥२४॥ भो भव्या यूयं तन्मयमनसः सन्तः जिनाजिनादिपञ्चदशभेदैः प्रसिद्धान् सततं-निरन्तरं ध्यायत, तन्मयं-सिद्धमयं मनो येषां ते इति समासः, कीदृशान् सिद्धान् ?-धनानि निबिडानि यानि कर्मवन्धनानि तेभ्यो विमुक्तान् , पुनः सिद्धं-निष्पन्न अनन्तचतुष्कं अनन्तज्ञानदर्शनसम्यक्त्वाकरणवीर्यरूपं (चतुष्कं) येषां ते तान् ।।२५।। भो भव्या यूयं नित्यं मूरिवरान्-आचार्यान् ध्यायत, कीदृशान् मूरिवरान् ?-ज्ञानाचारादिपञ्चाचारैः पवित्रान्-निर्मलान् , पुनर्विशुद्धा-निर्मला ये सिद्धान्ता-जिनागमाः तेषां देशना-उपदेशस्तत्र उद्यता-उद्यमवन्तः तान् , पुनः ?-परोपकार एव एकं-प्रधानं येषां ते तान् परोपकारकरणैकतत्परानित्यर्थः ॥ २६ ॥
१ विशुद्धज्ञानमयास्तान् ।
Jain Education
For Private & Personal Use Only
Piainelibrary.org