SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तत्थवि भावेण विणा, दाणं नहु सिद्धिसाहणं होई । सीलंपि भाववियलं, विहलं चिय होइ लोगंमि ॥१९॥ भावं विणा तवोविहु, भवोहवित्थारकारणं चेव । तम्हा नियमावुच्चिय, सुविसुद्धो होइ कायव्वो ॥२०॥ भावोवि मणोविसओ, मणं च अइदुज्जयं निरालंबं । तो तस्स नियमणत्थं, कहियं सालंबणं झाणं ॥ २१॥ आलंबणाणि जइविहु, बहुप्पयाराणि संति सत्येसु । तहविहु नवपयझाणं, सुपहाणं बिंति जगगुरुणो ॥२२॥ अरिहंसिद्धायरिया, उज्झाया साहुणो अ सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं ॥ २३॥ । । तत्रापि भावेन विना दानं सिद्धिसाधकं-मोक्षदायकं न भवति, हुः-निश्चये शीलमपि भावविकलं-भावरहितं सत् लोके विफलं-निष्फलमेव भवति, चियेत्यवधारणे ॥१९।। भावं विना तपोऽपि भवौघस्य-भवसमूहस्य-भवप्रवाहस्य वा यो विस्तार तस्य कारणमेवास्ति, एतावता भवभ्रमणकारणं न तु मुक्तिकारणमित्यर्थः, तस्मात्कारणात् निजभाव एव सुतरां विशुद्धो-निर्मलः कर्तव्यो भवति, कत्तु योग्योऽस्ति ॥ २० ॥ भावोऽपि मनोविषयो-मनोगोचरोऽस्ति, मनश्च निरालम्बं-आलम्बनरहितं सत् अतिदुर्जयं अतिशयेन दुर्जयं विद्यते, ततस्तस्मात् कारणात् तस्य मनसो नियमनार्थ-वशीकरणाथ सालम्बनं आलम्बनसहितं ध्यानं कथितम् In २१ ॥ यद्यपि आलम्बनानि शास्त्रेषु बहुप्रकाराणि संति, तथापि हु इति निश्चयेन जगद्गुरवः-श्रीजिनेन्द्रा नवपदध्यानं सुतरां प्रधानं आलम्बनं ब्रुवंति ॥ २२ ॥ अथ नवपदनामान्याह-अर्हन्तः१ सिद्धा २ आचार्या ३ उपाध्यायाः ४ साधवश्च ५ सम्यक्त्वं ६ ज्ञानं ७ चारित्रं ८ तपः ९ इति पदनवकं ज्ञातव्यम् ॥ २३ ॥ Jain Education | For Private & Personel Use Only ilainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy