SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ दट्टण कुमरलीलं रमणीजुयलं च रिद्धिवित्थारं । धवलो विचलिअचित्तो एवं चिंतेउमाढतो ॥ | अहह अहो जणमित्तो संपत्तो केरिसिं सिरिं एसो। अन्नं च रमणिजुयलं एरिसयं जस्स सो धन्नो ॥ ता जइ एयस्त सिरी रमणीजुयलं च होइमह कहवि। ताऽहं होमि कयत्थोअकयत्थो अन्नहा जम्मो॥ एवं सो धणलुद्धो रमणीशाणेण मयणसरविद्धो । दुज्झवसायाणुगो न लहेश् रइं ससल्लुव्व ॥ SSMEENESS तदा धवलः श्रेष्ठी कुमारस्य लीलां तथा रमणीयुगलं-स्त्रीद्वयं च पुनः ऋद्धिविस्तारं दृष्ट्वा-विलोक्य विशेषेण चलितं | चित्तं यस्य स विचलितचित्तः सन् एवं-वक्ष्यमाणप्रकारेण चिन्तयितुं आरब्ध-आरम्भं कृतवान् चिन्तयितुं लग्न इत्यर्थः । ॥ ६०३ ॥ अहहेतिखेदे अहो इत्याश्चर्ये एष श्रीपालो जनमात्र-एकाकिमनुष्यमात्रः सन् कीदृशीं श्रियं-लक्ष्मी सम्प्राप्तःप्राप्तवान् , अन्यच्च-अन्यत्पुनर्यस्य इदृशं रमणीयुगलं-पत्नीद्वयमस्ति स एष धन्यः॥६०४॥ तत्-तस्मात् यदि एतस्य श्रीपालस्य श्री-लक्ष्मीः च पुनः रमणीयुगलं-स्त्रीद्वयं कथमपि-केनापि प्रकारेण मम भवति, तत्-तहिं अहं कृतार्थो-निष्पन्नप्रयोजनो भवामि, अन्यथा एतयोः प्रात्यभावे मम जन्म अकृतार्थ-निष्फलमित्यर्थः ॥६०५॥ एवम्-अमुना प्रकारेण धनलुब्धःपरद्रव्यलोभयुक्तस्तथा मदनशरैः-कामबाणैर्विद्धः-ताडितोऽत एव दुरध्यवसायान्-दुष्टपरिणामान् अनुगतो-अभिव्याप्तः स धवलः सह शल्येन वर्त्तते इति सशल्य इव रति-मातं न लभते-न प्राप्नोति ।। ६०६॥ Jain Education toga For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy