________________
d तो राया छोडाविध आणावइ जाव निअयपासंमि । तं दट्ठणं कुमरो उवलक्खइ धवलसत्यवई ॥
चिंतइ मणे कुमारो अहह कहं एरिसंपि संजायं? । अहवा लोहवसेणं जीवाणं किं न संभवइ?॥ तं निअजणयसमाणं कहिउं मोआविओ नरिंदाओ। उवयारपरो कुमरो विसजए निअयठाणे अ॥E अह अन्नदिणे कुमरो विन्नत्तो वाणिएण एगेण । सामिअ! पूरिअपोआ अम्हे सव्वेवि संवहिआ॥ तोजह चिअ कुसलेणं अम्हे तुम्हेहिं आणियाइहयं। तह निअदेसमि पुणो सामिअ! तुरिअं पराणेह ॥
ततो राजा तं छोटयित्वा-बन्धनात् मोचयित्वा यावनिजपार्श्वे आनाययति तावत् कुमारः-श्रीपालस्तं दृष्ट्वा धवलसार्थपति उपलक्षते-धवलसार्थपतिरेवायमिति जानातीत्यर्थः ॥ ५६३ ॥ कुमारो मनसि चिन्तयति, अहह-इति खेद इदृशमपि अकार्य कथं सजातं ? अथवा जीवानां लोभवशेन किं न सम्भवति, सर्वमप्यकार्य सम्भवेदित्यर्थः ॥ ५६४ ॥ अथोपकारपर-उपकारकरणतत्परः कुमारस्तं धवलं निजजनकसमानं कथयित्वा-मम पितृतुल्योऽयमिति भणित्वा नरेन्द्रादराज्ञो मोचयति, च पुनः निजकस्थाने विसर्जयति-गमनाज्ञां दापयति ॥ ५६५ ॥ अथ अन्यस्मिन् दिने एकेन वणिजा कुमारो विज्ञप्त:-हे स्वामिन् ! पूरिता:-क्रयाणकै ताः पोता-वहनानि यैस्ते एवम्भूता वयं सर्वेऽपि संव्यूढा-गमनाय प्रगुणीभूताः स्म ।। ५६६ ॥ ततः-तस्मात्कारणात् यथैव युष्माभिर्वयं कुशलेन इह आनीताः तथा-तेनैव प्रकारेण हे स्वामिन् ! निजदेशे पुनस्त्वरितं-शीघ्र प्रापय-प्राप्तान कुरु, अत्र पूर्वार्द्ध नियकुसलेणेतिपाठोऽपि तत्र नित्यकुशलेनेत्यर्थः ॥ ५६७ ॥
in Education Interna
For Private Personel Use Only